SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना या:मल- यवृत्ती. ३६ समु. द्घातपदे समुद्धातपुद्गलपूरणादि सू. ३४२ ॥५९२॥ sacasses वाक्यशेषः, तत एतावता उत्कर्षतः त्रिसमयप्रमाणस्य कालस्य सम्बन्धि यथोक्तप्रमाणं क्षेत्रं वेदनाजननयोग्यः पुरलैरापूर्णमेतावता कालस्य सम्बन्धि स्पृष्टमिति। सम्प्रति यावन्तं कालं वेदनाजननयोग्यान् पुद्गलान् विक्षिपति तावत्कालप्रमाणं प्रतिपादनार्थमाह-'ते णं भंते !' इत्यादि, तान् वेदनाजननयोग्यान् पुद्गलान् णमिति वाक्यालङ्कारे भदन्त !-परमकल्याणयोगिन् परमसुखयोगिन् वा पुद्गलान् कियतः कालस्य सम्बन्धिनो विक्षिपति १, कियकालं वेदनाजननयोग्यान् विक्षिपतीति भावः, भगवानाह-जघन्येनाप्यन्तर्मुहूर्तस्य सम्बन्धिन उत्कर्षतोऽप्यन्तर्मु-1 हूर्तस्य, केवलं मनाक बृहत्तरस्य सम्बन्धिनः विक्षिपति, किमुक्तं भवति ?-ये पुद्गला जघन्यत उत्कर्षतश्चान्तर्मुहूर्त यावत् वेदनाजननसमर्थाः तान् तथा २ वेदनातः सन् खशरीरगतान् खशरीरादहिरात्मप्रदेशेभ्योऽपि विश्लिष्टान् विक्षिपति, यथाऽत्यन्तदाहज्वरपीडितः सन् सूक्ष्मपुद्गलान्, प्रत्यक्षसिद्धं चैतदिति, 'ते णं भंते !' इत्यादि, ते णमिति पूर्ववत् भदन्त ! पुद्गला विक्षिप्ताः सन्तः शरीरसम्बद्धा असम्बद्धा वा 'जाई तत्थे'त्यादि प्राकृतत्वात् पुंस्त्वेऽपि नपुंसकता यान् तत्र वेदनासमुद्घातगतपुरुषसंस्पृष्ट क्षेत्रेप्राणान्-द्वित्रिचतुरिन्द्रियान् शङ्ककीटिकामक्षिकादीन् भूतान्-वनस्पतीन् जीवान-पञ्चेन्द्रियान् गृहगोधिकासपोदीन् सत्त्वान्-शेषपृथिवीकायिकादीन् अभिन्नन्ति-अभिमुखमागच्छन्तो नन्ति वर्तयन्ति-आवर्तपतितान् कुर्वन्ति लेशयन्ति-मनाक स्पृशन्ति सङ्घातयन्ति-परस्परं तान् सवातमापन्नान् कुर्वन्ति सङ्घयन्ति-अतीव सङ्घातविशेषमापादितान् कुर्वन्ति परितापयन्ति-पीडयन्ति क्लमय ॥५९२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy