________________
लभ्यते इति ?, भगवानाह-गौतम ! एकसमयेन वा द्विसमयेन वा त्रिसमयेन वा विग्रहेण, किमुक्तं भवति?एकसमयेन वा द्विसमयेन वा त्रिसमयेन वा विग्रहेण यावन्मानं क्षेत्र व्याप्यते इयडूरं यावत् खशरीरप्रमाणविष्कम्भवाहल्यं क्षेत्रं वेदनाजननयोग्यैः पुद्गलैरापूर्ण-भृतं जीवस्य गतिमधिकृत्यावाप्यते, तत एतद्गतमुत्कर्षतस्त्रिसामयिकेन विग्रहेण यावन्मानं क्षेत्रमभिव्याप्यते एतावदात्मविश्लिष्टैर्वेदनाजननयोग्यैः पुद्गलैरापूर्ण लभ्यते, इह चतुःसामयिकः पञ्चसामयिकश्च विग्रहो यद्यपि सम्भवति तथापि वेदनासमुद्घातः प्रायः परोदीरितवेदनावशत उपजायते, परोदीरिता च वेदना त्रसनाड्यां व्यवस्थितस्य न बहिः, सनाडीव्यवस्थितस्य च विग्रह उत्कर्षतोऽपि त्रिसामयिक इति उत्कर्षतोऽपि त्रिसामयिकेन विग्रहेणेत्युक्तं, न चतुःसामयिकेन पञ्चसामयिकेन चेति, उपसंहारवाक्यमाह-एवइयकालस्स अफुण्णे एवइयकालस्स फुडे' एतावता उत्कर्षतोऽपि त्रिसमयप्रमाणेनेत्यर्थः कालेनापूर्णमेतावता कालेन स्पृष्ट, किमुक्तं भवति ?-विग्रहगतावुत्कर्षतः त्रीन् समयान् यावत् त्रिभिश्च समययोवन्मानं व्याप्यते इयन्ती सीमामभिव्याप्य खशरीरप्रमाणविष्कम्भबाहल्यं क्षेत्र वेदनाजननयोग्यैः पुद्गलैरापूर्ण भृतं च जीवस्य गतिमधिकृत्य व्याप्यते, अथवा 'केवइय कालस्स'त्ति षष्ठ्येव व्याख्येया, ततः खशरीरप्रमाणविष्कम्भबहिल्यं क्षेत्रं वेदनाजननयोग्यः पुदलरापूर्ण भृतं च जीवस्य विग्रहगतिमधिकृत्य कियतः कालस्य सम्बन्धि, कियन्तं कालं यावदवाप्यते इत्यर्थः, भगवानाह-एकसमयेन द्विसमयेन त्रिसमयेन वा विग्रहेणापूर्ण स्पृष्टं च लभ्यते इति
Saeo20909252908820
Jain Education
a
l
For Personal & Private Use Only
wwwjainelibrary.org