Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 445
________________ लभ्यते इति ?, भगवानाह-गौतम ! एकसमयेन वा द्विसमयेन वा त्रिसमयेन वा विग्रहेण, किमुक्तं भवति?एकसमयेन वा द्विसमयेन वा त्रिसमयेन वा विग्रहेण यावन्मानं क्षेत्र व्याप्यते इयडूरं यावत् खशरीरप्रमाणविष्कम्भवाहल्यं क्षेत्रं वेदनाजननयोग्यैः पुद्गलैरापूर्ण-भृतं जीवस्य गतिमधिकृत्यावाप्यते, तत एतद्गतमुत्कर्षतस्त्रिसामयिकेन विग्रहेण यावन्मानं क्षेत्रमभिव्याप्यते एतावदात्मविश्लिष्टैर्वेदनाजननयोग्यैः पुद्गलैरापूर्ण लभ्यते, इह चतुःसामयिकः पञ्चसामयिकश्च विग्रहो यद्यपि सम्भवति तथापि वेदनासमुद्घातः प्रायः परोदीरितवेदनावशत उपजायते, परोदीरिता च वेदना त्रसनाड्यां व्यवस्थितस्य न बहिः, सनाडीव्यवस्थितस्य च विग्रह उत्कर्षतोऽपि त्रिसामयिक इति उत्कर्षतोऽपि त्रिसामयिकेन विग्रहेणेत्युक्तं, न चतुःसामयिकेन पञ्चसामयिकेन चेति, उपसंहारवाक्यमाह-एवइयकालस्स अफुण्णे एवइयकालस्स फुडे' एतावता उत्कर्षतोऽपि त्रिसमयप्रमाणेनेत्यर्थः कालेनापूर्णमेतावता कालेन स्पृष्ट, किमुक्तं भवति ?-विग्रहगतावुत्कर्षतः त्रीन् समयान् यावत् त्रिभिश्च समययोवन्मानं व्याप्यते इयन्ती सीमामभिव्याप्य खशरीरप्रमाणविष्कम्भबाहल्यं क्षेत्र वेदनाजननयोग्यैः पुद्गलैरापूर्ण भृतं च जीवस्य गतिमधिकृत्य व्याप्यते, अथवा 'केवइय कालस्स'त्ति षष्ठ्येव व्याख्येया, ततः खशरीरप्रमाणविष्कम्भबहिल्यं क्षेत्रं वेदनाजननयोग्यः पुदलरापूर्ण भृतं च जीवस्य विग्रहगतिमधिकृत्य कियतः कालस्य सम्बन्धि, कियन्तं कालं यावदवाप्यते इत्यर्थः, भगवानाह-एकसमयेन द्विसमयेन त्रिसमयेन वा विग्रहेणापूर्ण स्पृष्टं च लभ्यते इति Saeo20909252908820 Jain Education a l For Personal & Private Use Only wwwjainelibrary.org

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484