Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
प्रज्ञापना
या: मल
य० वृत्तौ .
॥५९३ ॥
वैर्व्यापाद्यमाना वेदनासमुद्घातगतेन जीवेन व्यापाद्यन्ते तानधिकृत्य तस्य वेदनासमुद्घातपरिगतस्य तेषां च समुद्घातगतजीवसम्बन्धिपुद्गलस्पृष्टानां जीवानां क्रियानिरूपणार्थमाह- 'से णं भंते! जीवे ते य जीवा' इत्यादि, सः - अधिकृतो वेदनासमुद्घातगतो जीवः ते च वेदनासमुद्घातपरिगतजीव सम्बन्धिपुद्गलस्पृष्टाः अन्येषां जीवानामुपदर्शितेन प्रकारेण यः परम्पराघातस्तेन परम्पराघातेन कतिक्रियाः प्रज्ञप्ताः १, भगवानाह - गौतम ! स्यात् त्रिक्रिय इत्यादि पूर्ववत् भावयितव्यः, एनमेव वेदनासमुद्घातमुक्तेन प्रकारेण नैरयिकादिषु चतुर्विंशतिस्थानेषु चिन्तयन्नाह - 'नेरइए णं भंते !' इत्यादि, एवं उक्तेन प्रकारेण यथैव प्राक् सामान्यतो जीवो वेदनासमुद्घातमधिकृत्य चिन्तितः तथा नैरयिकोऽपि चिन्तयितव्यः, नवरं जीवाभिलापस्थाने नैरयिकाभिलापः कर्त्तव्यो, यथा 'नेरइए णं भंते ! वेणासमुग्धाएणं समोहए समोहणित्ता जे पोग्गले निच्छुभइ' इत्यादि, 'एवं निरवसेसं जाव बेमाणिए' इति एवं - नैरयिकोक्तेन प्रकारेण शेषेष्वपि स्थानेषु खखाभिलापपूर्वकं निरवशेषं तावद्वक्तव्यं यावद्वैमानिका:वैमानिकाभिलापः । तदेवमुक्तो वेदनासमुद्घातः, सम्प्रति कषायसमुद्घातं समानवक्तव्यत्वादतिदेशतोऽभिधित्सुराह - ' एवं कसायसमुग्धाओऽवि भाणियचो' इति, एवं - वेदनासमुद्घातगतेन प्रकारेण सामान्यतो जीवपदे चतुविंशतिदण्डकक्रमेण च कषायसमुद्घातोऽपि वक्तव्यः, स चैत्रम्- 'जीवे णं भंते! कसायसमुग्धाएणं समोहए समोहणित्ता जे पोग्गले निच्छुभइ' यान् पुद्गलान् शरीरान्तर्गतान् कषायसमुद्घातवशसमुत्थप्रयत्तविशेषतः खशरीराद्
Jain Education International
For Personal & Private Use Only
३६ समु
द्घातपदे
समुद्धात
पुद्गलपूरणादि सू.
३४२
॥५९३ ॥
www.jainelibrary.org

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484