SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना या: मल य० वृत्तौ . ॥५९३ ॥ वैर्व्यापाद्यमाना वेदनासमुद्घातगतेन जीवेन व्यापाद्यन्ते तानधिकृत्य तस्य वेदनासमुद्घातपरिगतस्य तेषां च समुद्घातगतजीवसम्बन्धिपुद्गलस्पृष्टानां जीवानां क्रियानिरूपणार्थमाह- 'से णं भंते! जीवे ते य जीवा' इत्यादि, सः - अधिकृतो वेदनासमुद्घातगतो जीवः ते च वेदनासमुद्घातपरिगतजीव सम्बन्धिपुद्गलस्पृष्टाः अन्येषां जीवानामुपदर्शितेन प्रकारेण यः परम्पराघातस्तेन परम्पराघातेन कतिक्रियाः प्रज्ञप्ताः १, भगवानाह - गौतम ! स्यात् त्रिक्रिय इत्यादि पूर्ववत् भावयितव्यः, एनमेव वेदनासमुद्घातमुक्तेन प्रकारेण नैरयिकादिषु चतुर्विंशतिस्थानेषु चिन्तयन्नाह - 'नेरइए णं भंते !' इत्यादि, एवं उक्तेन प्रकारेण यथैव प्राक् सामान्यतो जीवो वेदनासमुद्घातमधिकृत्य चिन्तितः तथा नैरयिकोऽपि चिन्तयितव्यः, नवरं जीवाभिलापस्थाने नैरयिकाभिलापः कर्त्तव्यो, यथा 'नेरइए णं भंते ! वेणासमुग्धाएणं समोहए समोहणित्ता जे पोग्गले निच्छुभइ' इत्यादि, 'एवं निरवसेसं जाव बेमाणिए' इति एवं - नैरयिकोक्तेन प्रकारेण शेषेष्वपि स्थानेषु खखाभिलापपूर्वकं निरवशेषं तावद्वक्तव्यं यावद्वैमानिका:वैमानिकाभिलापः । तदेवमुक्तो वेदनासमुद्घातः, सम्प्रति कषायसमुद्घातं समानवक्तव्यत्वादतिदेशतोऽभिधित्सुराह - ' एवं कसायसमुग्धाओऽवि भाणियचो' इति, एवं - वेदनासमुद्घातगतेन प्रकारेण सामान्यतो जीवपदे चतुविंशतिदण्डकक्रमेण च कषायसमुद्घातोऽपि वक्तव्यः, स चैत्रम्- 'जीवे णं भंते! कसायसमुग्धाएणं समोहए समोहणित्ता जे पोग्गले निच्छुभइ' यान् पुद्गलान् शरीरान्तर्गतान् कषायसमुद्घातवशसमुत्थप्रयत्तविशेषतः खशरीराद् Jain Education International For Personal & Private Use Only ३६ समु द्घातपदे समुद्धात पुद्गलपूरणादि सू. ३४२ ॥५९३ ॥ www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy