________________
बहिरात्मप्रदेशेभ्योऽपि विश्विष्टान् करोति, 'तेहि णं भंते ! पोग्गलेहिं केवइए खेत्ते अष्फुण्णे केवइए खित्ते फुडे ?, गो० ! सरीरप्पमाणमेत्ते विक्खभवाहलेणं नियमा छद्दिसिं एवइए खेत्ते अफुण्णे एवइए खेत्ते फुडे' कषायसमुघातो हि प्रथमं उद्भवति त्रसजीवानां तेषामेव तीव्रतराध्यवसायसम्भवाद, एकेन्द्रियाणां तु पूर्वभवानुवृत्तितः, त्रसजीवाश्च त्रसनाढ्यां न ततो वहिः, त्रसनाड्यां च व्यवस्थितः खशरीरप्रमाणं विष्कम्भबाहल्यं क्षेत्रमात्मविश्लिष्टैः पुद्गलैः भृतं षदिक्त्वमवश्यमुपपद्यते इति 'नियमा छद्दिसि' मित्युक्तम्, 'एवइए खेत्ते अफुण्णे एवइए खेत्ते फुडे' |इत्यादि सर्व समानं । सम्प्रति मरणसमुद्घातमभिधित्सुराह - 'जीवे णं भंते ! मारणंतियसमुग्धाएण' मित्यादि, इति पूर्ववत् भदन्त ! कश्चिन्मारणान्तिकसमुद्घातेन समवहतः समवहत्य च यान् पुद्गलान् तैजसादिशरीरान्तर्गतान् 'निच्छुभइ' इति विक्षिपति, आत्मप्रदेशेभ्यो विश्लिष्टान् करोति तैर्भदन्त ! पुद्गलैः कियत् क्षेत्रमापूर्ण कियत् क्षेत्रं भृतम् ?, भगवानाह - गौतम ! विष्कम्भवाहल्यतः शरीरप्रमाणमायामतो जघन्यतः खशरीरातिरेकाङ्गुलासङ्ख्येयभागमात्रं यदा तावन्मात्रे क्षेत्रे उत्पद्यते उत्कर्षतोऽसङ्ख्येयानि योजनानि एतच्च यदा तावति क्षेत्रे अन्यथा वा द्रष्टव्यम्, एकदिशि- एकस्यां दिशि न तु विदिशि स्वभावतो जीवप्रदेशानां दिशि गमनसम्भवात् एतावत् क्षेत्रमापूर्णमेतावत् क्षेत्रं स्पृष्टं जघन्यतः उत्कर्षतो वा आत्मप्रदेशैरपि एतावत् क्षेत्रस्य पूरणसम्भवात्, सम्प्रति विग्रहगतिमधिकृत्यापूरणविषयं स्पर्शनविषयं च कालप्रमाणमाह - 'से णं भंते !' इत्यादि, तत् उत्कर्षेणायामतोऽनन्तरोक्तप्रमाणं भद
Jain Education Inal
For Personal & Private Use Only
ainelibrary.org