Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 425
________________ 7090aeee9999000 'कइ ण'मित्यादि, इदं सामान्यतः कषायसमुद्घातविषयं चतुर्विंशतिदण्डकक्रमगतं च सूत्रं सुप्रतीतं, सम्प्रत्येकैकस्य नैरयिकादेश्चतुर्विंशतिदण्डकक्रमेण वैमानिकपर्यवसानस्य तद्वक्तव्यतामाह-'एगमेगस्स णं भंते !' इत्यादि, अत्रातीतसूत्रं सुप्रतीतं, पुरस्कृतसूत्रे 'कस्सइ अस्थि कस्सइ नत्थि'त्ति यो नरकभवप्रान्ते वर्तमानः खभावत | एवाल्पकषायः कषायसमुद्घातमन्तरेण कालं कृत्वा नरकादुदृत्तो मनुष्यभवं प्राप्य कषायसमुद्घातमगत एव सेत्स्यति तस्य नास्ति पुरस्कृत एकोऽपि कषायसमुद्घातो, यस्यापि सन्ति तस्यापि जघन्यत एको द्वौ त्रयो वा, ते 31 च प्रागुक्तखरूपस्य सकृत्कषायसमुद्घातगामिनो वेदितव्याः, उत्कर्षतः सङ्ख्येया असङ्ख्येया अनन्ता वा, तत्र सङ्ख्येयं । | कालं संसारावस्थायिनः सङ्ख्येयाः असङ्ख्येयं कालमसङ्ख्येयाः अनन्तकालमनन्ताः, एवमसुरकुमारादिक्रमेण तावद् | वाच्यं यावद्वैमानिकस्य, 'एव'मित्यादि, एवं-चतुर्विंशतिदण्डकक्रमेण मानादिकषायसमुद्घातसमुद्धतास्तावद्वक्तव्याः यावल्लोभसमुद्घातः, एवमते चत्वारः चतुर्विशतिदण्डका भवन्ति, एते चैकैकनैरयिकादिविषया उक्ताः, सम्प्रत्येतानेव चतुश्चतुर्विंशतिदण्डकान् सकलनारकादिविषयानाह-'नेरइयाणमित्यादि, अतीतसूत्रं सुप्रतीतं, पुरस्कृता अनन्ताः, प्रश्नसमयभाविनां नारकाणां मध्ये बहूनामनन्तकालमवस्थायित्वात् , एवं-नैरयिकोक्तेन प्रकारेण तावद् वक्तव्यं यावद्वैमानिकानां । यथा चैषः क्रोधसमुद्घातश्चतुर्विशतिदण्डकक्रमेणोक्तः एवं मानादिसमुद्घाता अपि तावद् वक्तव्या यावलोभसमुदघातः। एवमेतेऽपि सकलनारकादिविषयाश्चत्वारश्चतुर्विशतिदण्डका भवन्ति, साम्प्रतमेकैकस्य Jain Education For Personal & Private Use Only Handinainelibrary.org

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484