Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
६ मेव तेजोलब्धिभावात् , तेभ्यो वेदनासमुद्घातेनासमवहताः असङ्ख्येयगुणाः, तेभ्योऽपि वैक्रियसमुद्घातेन समवहताः
असङ्ख्येयगुणाः, प्रभूतानां वैक्रियलब्धर्भावात् , तेभ्योऽपि मारणान्तिकसमुद्घातेन समवहता असङ्ख्येयगुणाः, सम्मूछिमजलचरस्थलचरखचराणामपि सर्वेषां वैक्रियलन्धिरहितानां प्रत्येकं पूर्वोक्तेभ्योऽसद्ध्येयगुणानां केषाञ्चित् गर्भजानामपि वैक्रियलब्धिरहितानां वैक्रियलब्धिमतां च मरणसमुद्घातसम्भवात् , तेभ्योऽपि वेदनासमुद्घातेन समुद्धताः असङ्ख्येयगुणाः, म्रियमाणजीवराश्यपेक्षया अपि अम्रियमाणानामसङ्ख्येयगुणानां वेदनासमुद्घातभावात्, तेभ्यः कषायसमुद्घातेन समुद्धताः सङ्ख्येयगुणाः, तेभ्योऽप्यसमवहताः सङ्ख्येयगुणाः, अत्र भावना प्रागिव । मनुष्यसूत्रे सर्वस्तोका आहारकसमुद्घातेन समुद्धताः, अतिस्तोकानामेककालमाहारकशरीरप्रारम्भसंभवात् , तेभ्यः केवलिसमुघातेन समुद्धताः सङ्खयेयगुणाः, शतपृथक्त्वसङ्ख्यया प्राप्यमाणत्वात् , तेभ्यस्तैजससमुदघातेन समवहताः सङ्ख्येयगुणाः, शतसहस्रसङ्ख्यया तेषां प्राप्यमाणत्वात् , तेभ्योऽपि वैक्रियसमुद्घातेन समुद्धताः सङ्ख्ययगुणाः, कोटीसङ्ख्यया लभ्यमानत्वात् , तेभ्योऽपि मारणान्तिकसमुद्घातेन समवहता असङ्ख्येयगुणाः, सम्मूछिममनुष्याणामपि तद्भावात् , तेषां चासङ्ख्येयत्वात् , तेभ्योऽपि वेदनासमुद्घातेन समुद्धता असङ्ख्येयगुणाः, म्रियमाणराश्यपेक्षया असङ्ख्येयगुणानाम| म्रियमाणानां तद्भावसम्भवात् , तेभ्यः कषायसमुद्घातेन समुद्धताः सङ्ख्येयगुणाः, प्रभूततया तेषां प्राप्यमाणत्वात्, तेभ्योऽप्यसमवहता असङ्ख्येयगुणाः, सम्मूछिममनुष्याणामल्पकषायाणामुत्कटकपायिभ्योऽसङ्ख्येयगुणानां सदा
टटeseneeleseseceselaelaeeeeeee
Jain Education
a
l
For Personal & Private Use Only
Narainelibrary.org

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484