Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
चिन्ता. मनुष्यचिन्तायां चैवं भावना-यो नरकादुदृत्तो मनुष्यभवं प्राप्य मानसमुद्घातमगत्वा सेत्स्यति तस्य नास्त्येकोऽपि पुरस्कृतो मानसमुद्घातो, यतु मनुष्यत्वं गतः सन्नेकं वारं मानसमुद्घातं गन्ता तस्यैकोऽपरस द्वावन्यस्य ज्यादयः सङ्ख्येयान् वारान् गन्तुः सङ्ख्येयाः असङ्ख्येयान् वारान् असङ्ख्ययाः अनन्तान् वारान् अनन्ताः, व्यन्तरज्योतिष्कवैमानिकत्वेषु भावना यथा असुरकुमारत्वे यथा च नैरयिकस्य नैरयिकत्वादिषु चतुर्विंशतिस्थानेषु भावना कृता तथा असुरकुमारादीनामपि वैमानिकपर्यवसानानां चतुर्विंशतिदण्डकक्रमेण कर्तव्या, यथा च मानसमुद्घातस्य चतुर्विंशतिः सूत्राणि चतुर्विशतिदण्डकक्रमेणोक्तानि तथा मायासमुद्घातस्यापि चतुर्विशतिसूत्राणि चतुर्विशतिदण्डकक्रमेण वक्तव्यानि, तुल्यगमकत्वात् , अधुना लोभसमुद्घातमतिदेशत आह-'लोभसमुग्घातो जहा कसा
यसमुग्घातो. नवरं सघजीवा असुराई नेरइएसु लोभकसाएणं एगुत्तरियाए नेतवा' इति, यथा प्राक् कषायसमुद्रात 18| उक्तस्तथा लोभकषायोऽपि वक्तव्यः, नवरं तत्रासुरकुमारादीनां नैरयिकत्वे पुरस्कृतचिन्तायां स्यात् सङ्ख्येयाः स्याद-18
सङ्ख्यया स्यादनन्ता इत्युक्तं अत्र तु सर्वे जीवा असुरकुमारादयो नैरयिकेषु पुरस्कृतचिन्तायां चिन्त्यमाना एकोतरिकया ज्ञातव्याः, एकोत्तरस्य भाव एकोतरिका 'द्वन्द्वचुरादिभ्यो वु'जिति चौरादेराकृतिगणतया बुझिति, एको द्वौ त्रय इत्यादिरूपा तया, एकोत्तरतया इत्यर्थः, नैरयिकाणां निरतिशयदुःखवेदनाभिभूततया नित्यमुद्विग्नानां प्रायो लोभसमुद्घातासम्भवात् , सूत्रालापकश्चैवम्-'एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केव० लोभसमु० अतीता ?.
90988s een99...
992800008-098298
Jaln Education.inv
al
For Personal & Private Use Only
wainelibrary.org

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484