________________
7090aeee9999000
'कइ ण'मित्यादि, इदं सामान्यतः कषायसमुद्घातविषयं चतुर्विंशतिदण्डकक्रमगतं च सूत्रं सुप्रतीतं, सम्प्रत्येकैकस्य नैरयिकादेश्चतुर्विंशतिदण्डकक्रमेण वैमानिकपर्यवसानस्य तद्वक्तव्यतामाह-'एगमेगस्स णं भंते !' इत्यादि, अत्रातीतसूत्रं सुप्रतीतं, पुरस्कृतसूत्रे 'कस्सइ अस्थि कस्सइ नत्थि'त्ति यो नरकभवप्रान्ते वर्तमानः खभावत | एवाल्पकषायः कषायसमुद्घातमन्तरेण कालं कृत्वा नरकादुदृत्तो मनुष्यभवं प्राप्य कषायसमुद्घातमगत एव सेत्स्यति तस्य नास्ति पुरस्कृत एकोऽपि कषायसमुद्घातो, यस्यापि सन्ति तस्यापि जघन्यत एको द्वौ त्रयो वा, ते 31 च प्रागुक्तखरूपस्य सकृत्कषायसमुद्घातगामिनो वेदितव्याः, उत्कर्षतः सङ्ख्येया असङ्ख्येया अनन्ता वा, तत्र सङ्ख्येयं । | कालं संसारावस्थायिनः सङ्ख्येयाः असङ्ख्येयं कालमसङ्ख्येयाः अनन्तकालमनन्ताः, एवमसुरकुमारादिक्रमेण तावद् | वाच्यं यावद्वैमानिकस्य, 'एव'मित्यादि, एवं-चतुर्विंशतिदण्डकक्रमेण मानादिकषायसमुद्घातसमुद्धतास्तावद्वक्तव्याः यावल्लोभसमुद्घातः, एवमते चत्वारः चतुर्विशतिदण्डका भवन्ति, एते चैकैकनैरयिकादिविषया उक्ताः, सम्प्रत्येतानेव चतुश्चतुर्विंशतिदण्डकान् सकलनारकादिविषयानाह-'नेरइयाणमित्यादि, अतीतसूत्रं सुप्रतीतं, पुरस्कृता अनन्ताः, प्रश्नसमयभाविनां नारकाणां मध्ये बहूनामनन्तकालमवस्थायित्वात् , एवं-नैरयिकोक्तेन प्रकारेण तावद् वक्तव्यं यावद्वैमानिकानां । यथा चैषः क्रोधसमुद्घातश्चतुर्विशतिदण्डकक्रमेणोक्तः एवं मानादिसमुद्घाता अपि तावद् वक्तव्या यावलोभसमुदघातः। एवमेतेऽपि सकलनारकादिविषयाश्चत्वारश्चतुर्विशतिदण्डका भवन्ति, साम्प्रतमेकैकस्य
Jain Education
For Personal & Private Use Only
Handinainelibrary.org