________________
rceaelae
प्रज्ञापना
या मलयवृत्ती.
३६ समुद्घातपदं समुद्धातानामल्पब| हुत्वं सू. ३३७-३३८
॥५८०॥
eeeeeeeeeeee
यावत स्तनितकुमाराणामिति । सम्प्रति पृथिवीकायिकगतमल्पबहुत्वमाह-'एएसि ण'मित्यादि, अत्र कषायसमुदघातसमुद्धतानां वेदनासमुद्घातसमुद्धतानां च सङ्ख्येयगुणत्वे असमवहतानां चासमवेयगुणत्वे भावना खयं भावनीया, सुगमत्वात् , 'एव'मित्यादि, पृथिवीकायिकगतेन प्रकारेणाल्पबहुत्वं तावद्वक्तव्यं यावद्वनस्पतिकायिकाः. | वायुकायिकान् प्रति विशेषमभिधित्सुराह-'नवर'मित्यादि, नवरं वातकायिकानामल्पबहुत्वचिन्तायामेवं वक्तव्यंसर्वस्तोका वातकायिका वैक्रियसमुद्घातेन समुद्धताः, बादरपर्याप्तसङ्ख्येयभागस्य वैक्रियलब्धेः सम्भवात् , तेभ्योऽपि मारणान्तिकसमुद्घातेन समुद्धता असङ्ख्येयगुणाः, पर्याप्तापर्याप्तसूक्ष्मबादरभेदभिन्नानां सर्वेषामपि वातकायिकानां मरणसमुदघातसम्भवात् , तेभ्योऽपि कषायसमुद्घातेन समुद्धताः सङ्ख्ययगुणाः, तेभ्योऽपि वेदनासमुद्घातेन समुद्धता विशेषाधिकाः, तेभ्योऽसमवहता असङ्ख्येयगुणाः, सकलसमुद्घातगतवातकायिकापेक्षया खभावस्थानां वातकायिकानां खभावत एवासङ्ख्येयगुणतया प्राप्यमाणत्वात् । द्वीन्द्रियसूत्रे सर्वस्तोकाः द्वीन्द्रिया मारणान्तिकसमुद्घातेन समुद्धताः, प्रतिनियतानामेव प्रश्नसमये मरणसद्भावात् , तेभ्यो वेदनासमुद्घातेन समुद्धता असङ्ख्येयगुणाः, शीतातपादिसम्पर्कतोऽतिप्रभूतानां वेदनासमुद्घातभावात् , तेभ्यः कषायसमुद्घातेन समुद्धता असङ्ख्येयगुणाः, अतिप्रभूततराणां लोभादिकषायसमुद्घातभावात् , तेभ्योऽप्यसमवहताः सङ्ख्येयगुणाः, 'एव'मित्यादि, एवं द्वीन्द्रियगतेन प्रकारेण तावद् वक्तव्यं यावचतुरिन्द्रियाः। तिर्यपञ्चेन्द्रियसूत्रे सर्वस्तोकास्तैजससमुद्घातेन समुद्धताः, कतिपयाना
Coeroeceivedeoesesesea
॥५८०॥
Jain Education Laura
For Personal & Private Use Only
anelibrary.org