SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ दीरणाय निरन्तरमुत्तरवैक्रियसमारम्भसम्भवात् , तेभ्योऽपि कषायसमुद्घातेन समुद्धताः सङ्ख्येयगुणाः, कृतोत्तरवैक्रियाणामकृतोत्तरवैक्रियाणां च सर्वसङ्ख्ययोत्तरवैक्रियारम्भकेभ्योऽसङ्ख्येयगुणानां कषायसमुद्घातसमुद्धतत्वेन प्राप्यमाणत्वात् , तेभ्योऽपि वेदनासमुद्घातेन समुद्धताः सङ्ख्येयगुणाः, यथायोगं क्षेत्रजपरमाधार्मिकोदीरितपरस्परोदीरितवेदनाभिः प्रायो बहूनां सदा समुद्धतत्वेन प्राप्यमाणत्वात्, तेभ्योऽप्येकेनापि समुद्घातेनासमवहताः सङ्ख्येयगुणाः, वेदनासमुद्घातमन्तरेणाप्यतिबहूनां सामान्यतो वेदनामनुभवतां सम्भवात् । सम्प्रत्यसुरकुमाराणामल्पबहुत्वमाह-एएसि ण'मित्यादिप्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोकाः असुरकुमारास्तैजससमुद्घातेन समुद्धताः, तैजसो हि समुद्घातो महति कोपावेशे क्वचित कदाचित्केपाश्चिद्भवति, ततस्तेन समुद्घातेन समुद्धताः सर्वस्तोकाः, तेभ्यो मारणान्तिकसमुद्घातेन समुद्धताः असङ्ख्येयगुणाः, तेभ्यो वेदनासमुद्घातेन समुद्धताः असङ्ख्ये&यगुणाः, परस्परं युद्धादौ बहूनां वेदनासमुद्घातेन समुद्घतानां प्राप्यमाणत्वात् , तेभ्योऽपि कषायसमुद्घातेन समु-18 द्धताः सङ्ख्येयगुणाः, येन तेन वा कारणेन बहूनां कषायसमुद्घातगमनसम्भवात् , तेभ्योऽपि वैक्रियसमुद्घातन | समुद्धताः सङ्ख्येयगुणाः, परिचारणाद्यनेकनिमित्तमतिबहुनामुत्तरवैक्रियकरणारम्भसम्भवात्, तेभ्योऽप्यसमवहता असङ्ख्येयगुणाः, बहूनामुत्तमजातीनां सुखसागरावगाढानां प्राक्तेभ्योऽसयेयगुणानां केनापि समुद्घातेनासमवह|तानां सदा लभ्यमानत्वात् , 'एव'मित्यादि, यथा असुरकुमाराणामल्पबहुत्वमुक्तमेवं सर्वेषां भवनपतीनां द्रष्टव्यं 0202020201630000०029202030203 Jain Education For Personal & Private Use Only M ainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy