Book Title: Pragnapanopangamsutram Part 02
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
यथासम्भवं नैरयिकत्वे वृत्तानां सतां समुदायेन सर्वसङ्ख्यया कियन्तो वेदनासमुद्घाता अतीताः ?, भगवानाहगौतम ! अनन्ताः, बहूनामनन्तकालमसंव्यवहारराशेरुद्धृत्तत्वात् , कियन्तः पुरस्कृताः , एतच सूत्रं सूचामात्र, परिपूर्णस्तु पाठ एवं-'नेरइयाणं भंते ! नेरइयत्ते केवइया वेयणासमुग्घाया पुरेक्खडा ?' इति भगवानाह-गौतम ! अनन्ताः, बहूनामनन्तशो भूयोऽपि नरकेष्वागमनसम्भवात् , 'एवं'मित्यादि, एवमुक्तेन प्रकारेणासुरकुमारत्वादिषु स्थानेषु क्रमेण तावद् वक्तव्यं यावद्वैमानिकत्वे-वैमानिकत्वविषयं सूत्रं, तचेदं-'नेरइयाणं भंते ! वेमाणियत्ते केवइया वेयणासमुग्घाया अतीता ?, गो० ! अणंता, केवइया पुरेक्खडा ?, गो.! अणंता' इति, अत्र अतीता अनन्ताः सुप्रतीताः, सर्वसांव्यवहारिकजीवैः प्रायोऽनन्तशो वैमानिकत्वस्य प्राप्तत्वात् , पुरस्कृतास्त्वनन्ताः, प्रश्नसमयभाविनां नैरयिकाणां मध्ये बहुभिरनन्तशो वैमानिकत्वस्य प्राप्स्यमानत्वात् , एवमपान्तरालवर्तिष्वपि असुरकुमारत्वादिषु स्थानेषु भावना भावनीया, यथा च नैरयिकाणां नैरयिकत्वादिषु चतुर्विशतिदण्डकक्रमेणातीताः पुरस्कृताश्च वेदनासमुद्घाता भणिता एवं सर्वजीवानामसुरकुमारादीनां भणितव्याः, कियडूरं यावदित्याह-यावद्वैमानिकानां वैमानिकत्वे-वैमानिकत्वविषयाः. ते चैवं-'वेमाणियाणं भंते ! वेमाणियत्ते केवइया वेयणासमुग्घाया अतीता ?, गो! अणंता. केवइया परे०१, गो! अणंता' इति, एवं कषायमरणवैक्रियतैजससमुद्घाता अपि नैरयिकादीनां वैमानिकपर्यवसानानां सर्वेषु नैरयिकत्वादिषु स्थानेषु चतुर्विशतिदण्डकक्रमेण वक्तव्याः, तथा चाह
B9802000988800008
Jain Education Intemabona
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484