Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 113
________________ ॥ सवृत्तिपिण्डनिर्युक्तिः ॥ भवन्ती”ति लक्षणात् परम्परामरणेन अनुम्रियते सत्त्वजालं सहस्रं यावत्, सहस्रघातिविषसामर्थ्यत इति गाथार्थः॥२९८॥ दृष्टान्तमभिधाय दान्तिकयोजनामाह ७४ एवं मीसज्जायं चरणप्पं हणइ साहु सुविसुद्धं । तम्हा तं नो कप्पइ पुरिससहस्संतरगतं पि ॥ २९९ ॥ एवं गाहा । व्याख्या- एवं मिश्रजातं यद् अविशोधिकोट्यन्तर्गतं पाखण्डि-साधुमिश्रजातमिति भावः, चरणात्मानं हन्ति = घातयति सुविशुद्धमपि, सावद्यत्वात्। यस्मादेवं तस्मात् न कल्पते पुरुषसहस्रान्तरगतमपि, भगवद्वचनप्रामाण्यादिति गाथार्थः॥ २९९॥ अत्रैव भाजनविधिमभिधित्सुर्यदुक्तं "कप्पति कप्पे कते तिगुणे” तदाहणिच्छोडिए करीसेण वावि उव्वट्टिए ततो कप्पा । सुक्कावित्ता गेहइ अण्णे चउत्थे असुक्के वि ॥ ३०० ॥ दारं ॥ णिच्छोडिय गाहा । व्याख्या - निच्छोटिते = दृढं निर्लेपीकृते सति करीषेण वाऽपि उद्वर्त्तिते सति, भाजन इति गम्यते, तत्र त्रयः कल्पा दीयन्ते, न त्वविशेषेण तदनु शुष्कापयित्वा भाजनं गृह्णात्यशनादीति अयं विधिः । अन्ये त्वाचार्याः प्रतिपादयन्ति - चतुर्थे कल्पे दत्ते सति अशुष्केऽपि गृह्णातीति गाथार्थः॥ ३००॥ प्रतिपादितं मिश्रजातद्वारम् । साम्प्रतं स्थापनाद्वारमाह सट्ठाण - परट्ठाणे दुविहं ठवियं तु होइ नायव्वं । खीराइ परंपरए हत्थगय घरंतरं जाव ॥३०१ ॥ सट्ठाण० गाहा। व्याख्या - इह साध्वर्थं यद् अशनादेः स्थापनमसौ स्थापनोच्यते। तत्र स्थापना स्थापितमित्यनर्थान्तरम्, अतो भेदत इदमेवाह- स्वस्थान - परस्थानयोर्द्विविधं स्थापितमिति । अत्र स्वस्थानं देयाऽपेक्षया चुल्ली वा अवचुल्ली वा, दधि-क्षीरगृहादि (वा) तत्र स्थापितं शाल्योदन - गुल-क्षीरादि स्वस्थानस्थापितम्; परस्थानं तु छब्बकादि, तत्र स्थापितं परस्थानस्थापितम् । इत्थमिदं द्विप्रकारं तुशब्दः परम्परा - ऽनन्तर-1 र- चिरेत्वरविशेषणार्थः, भवति ज्ञातव्यं, तीर्थकरवचनात् । दातुकामेन तत्र क्षीरादि परम्परस्थापितम्, आदिशब्दाद् इक्ष्वादिपरिग्रहः । 'हस्तगते गृहान्तरं यावत्' इति अधिकृतगृहाङ्गणभाँजामेव गृहान्तरविनिर्गताऽगारिहस्तस्थप्राभृतिकादि स्थापनेति गाथाक्षरार्थः ॥ ३०१॥ (टि०) १. सलहेसु कयकप्पे तिण्णिओ से सुक्खो दवंमि जे१ को० ॥ २. तदन्वपि शुष्कयित्वा जि० ॥ ३. तत् जि० ला० ॥ ४. चिरेतर जि१ ॥ ५. आदातु० जि० विना ।। ६. कृत्यगृ० जि० ॥ ७. भाजन एव जि० ॥ (वि०टि० ) पू. मलयगिरिसूरिमते तु न केवलं अविशोधिकोट्यन्तर्गतं पाखण्डि - साधुमिश्रजातं परम्परया पुरुषसहस्रान्तरगतमपि चरणात्मानं हन्ति अपि तु यावदर्थिकमिश्रजातमपि हन्ति । तथा च तट्टीका- “ एवं सहस्रवेधकविषमिव यावदर्थिकपाखण्डि - साधुविषयं मिश्रजातमप्येकेनान्यस्मै दत्तं तेनाऽप्यन्यस्मायित्येवं परम्परया पुरुषसहस्रान्तरगतमपि साधोः सुविशुद्धं चरणात्मानं हन्ति..." इति मलय० ॥

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226