Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 196
________________ ॥ लिप्तदोषनिरूपणम् ॥ १५७ जड़ से गाधा । व्याख्या - यदि 'से' त्ति साधोर्न योगहानिः साम्प्रतं एष्यत्काले वा भवति ततः क्षपणं करोतु, क्षपणान्तरेऽप्याचाम्लं करोतु नियतं वा तदाचाम्लं करोतु यदि शक्नोतीति गाथार्थः॥६५४॥ चोदक आह 'हेट्ठावणि कोसलया सोवीरग- कूरभोइणो मणुया । जड़ ते वि जवंति तहा किं नाम जती ण जवंति ।। ६५५ ।। हेट्ठा० गाहा। व्याख्या– ‘हेट्ठावणि' त्ति महाराष्ट्रास्तथा कोशलदेशोद्भवाः सौवीरक- कूरभोजिनो मनुजा यदि तेऽपि यापयन्ति तथा किमिति नाम यतयो न यापयन्ति, अपि तु यापयन्त्येवेति गाथार्थः॥६५५॥ गुरुराह तिय सीयं समणाणं तिय उण्ह गिहीण तेणऽणुण्णायं । तक्कादीणं गहणं कट्टरमादीसु भतियव्वं ॥ ६५६ ॥ तीय सीयं गाहा । व्याख्या- त्रिकं शीतं श्रमणानां वक्ष्यमाणं तदेव त्रिकमुष्णं गृहिणां तेन कारणेनानुज्ञातं तक्रादीनां ग्रहणं साधूनां, कट्टरादिषु = घृतवटिकोन्मिश्रतीमनादिषु ग्रहणं भाज्यमिति गाथार्थः॥६५६॥ किं तत् त्रिकम् ? इत्याह आहार - उवहि- सेज्जा तिण्णि वि उण्हा गिहीण सीते वि । तेण उ जीरति तेसिं दुहओ उसिणेण आहारो ॥६५७ ॥ = आहार० गाहा। व्याख्या - आहारोपधि - शय्यास्तिस्रोऽपि उष्णा गृहिणां शीतेऽपि शीतकालेऽपि तेन तु जीर्यति तेषां 'दुहओ'त्ति उभयतो- बाह्यतोऽभ्यन्तरतश्चोष्णेन आहार इति गाथार्थः॥६५७॥ एयाइं चिय तिण्णि वि जतीण सीयाइं होंति गिम्हे वि । तेणुवहम्मति अग्गी ततो ये दोसा अजीरादी ॥ ६५८ ॥ एयाइं चिय गाहा। व्याख्या - एतान्येव त्रीण्यपि पूर्वोक्तानि शीतानि भवन्ति ग्रीष्मेऽपि तेन कारणेनोपहन्यते अग्निः जाठरः, तस्माच्चाग्न्युपघांताद् दोषा भवन्त्यजीर्णादयो, यस्मान्न केवलमन्तर्गतेनैव जठराग्निना आहारः पच्यते किन्तु तक्रादिनाऽपि आहारपक्तिर्भवतीति, अतोऽनुज्ञातं तक्रादीनां ग्रहणं साधूनामिति गाथार्थः ॥ ६५८ ॥ अलेपद्रव्यप्रदर्शनायाह ओदण-मंडग-सत्तुग- कुम्मासा रायमास - कल - वल्ला । तूवरि- मसूर - मुग्गा मासा य अलेवडा सुक्का ॥ ६५९॥ (टि०) १. उ जे१ ॥ २. अस्या गाथाया अनन्तरं अधिका गाथा जे२ प्रतौ उपलभ्यते सा चेयम् - जइ एय विप्पहूणा तव नियम गुणा भवे निरवसेसा । आहारमाइयाणं को ताण परिग्गहं कुज्जा | (वि०टि०) कलाः = वृत्तचनकाः सामान्येन वा चनकाः इति मलय० । कलायः = प्र०सा०वृ०गा० ९९७ ॥ त्रिपुटाख्यो धान्यविशेषः

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226