Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 197
________________ ॥ सवृत्तिपिण्डनिर्युक्तिः ॥ ओदण० गाहा। व्याख्या - ओदन- मण्डक-सक्तुक - कुल्माष - राजमाष-कलाय - वल्ल - तुवरीमसूर - मृद्ग- माषाश्चैतानि अलेपद्रव्याणि शुष्कानीति गाथार्थः ॥ ६५९ ॥ अल्पलेपद्रव्यप्रकाशनायाह— उब्भिज्ज पेज्ज कूरो तक्कोल्लण - सूव - कंजि - कढियादी । एए तु अप्पलेवा पच्छाकम्मं तहिं भइयं ॥ ६६०।। २ १५८ उब्भज्जि गाहा। व्याख्या– 'उब्भज्जी 'त्ति भर्जिका वस्तुल- चिल्लीशाकादिकृता, पेया यवागूः, कूरं कोद्रवौदनम्, तक्रम्, उल्लणं येनौदनाद्रीक्रियते, सूपः, काञ्जिकम्, क्वथितिकेत्येवमादीनि एतानि अल्पलेपानि पश्चात्कर्म्म तेषु भाज्यमिति गाथार्थः ॥ ६६० ॥ बहुलेपद्रव्यकथनायाह खीर - दहि-जाउ - कट्टर - तेल्ल-घयं फाणियं सपिंडरसं । इच्चादी बहुलेवं पच्छाकम्मं तहिं नियमा ।। ६६१॥ खीर० गाहा। व्याख्या— क्षीरं, दधि, 'जायु' त्ति क्षीरपेया, कट्टरं, तैलं घृतं, फाणितं, सपिण्डरसमित्यादि द्रव्यकदम्बकं बहुलेपं पश्चात्कर्म्म तत्र नियमाद् भवतीति गाथार्थः ॥ ६६१॥ साम्प्रतं अल्पलेपद्रव्यपश्चात्कर्म्मभजनां अष्टभङ्गिकया कथयन्नाह— संसङ्केतर हत्थो मत्तो वि य दव्व सावसेसितरं । अभंगा नियमा गहणं तु ओएसु ॥ ६६२ ।।दारं ॥ संसट्ठेयर गाधा। व्याख्या- तत्र दातुः संसृष्टोऽसंसृष्टो वा हस्तो भवति, मात्रकमपि च संसृष्टमितरद् वा, द्रव्यमपि सावशेषं इतरद् वाऽसावशेषमिति एषां त्रयाणां संसृष्टहस्त-संसृष्टमात्र - सावशेषद्रव्यपदानां अष्टौ भङ्गा भवन्ति। ते चामी - संसृष्टो हस्तः संसृष्टं मात्रकं सावशेषं द्रव्यमिति प्रथमो भङ्गकः (१) संसृष्टो हस्तः संसृष्टं मात्रकं निरवशेषं द्रव्यमिति द्वितीयो भङ्गकः (२) संसृष्टो हस्तोऽसंसृष्टं मात्रकं सावशेषं द्रव्यमिति तृतीयः (३) इत्येवमष्टौ भङ्गा भावनीयाः । तत्र नियमाद् ग्रहणं तु भवति 'ओजेसु'त्ति विषमेषु प्रथम-तृतीय-पञ्चम-सप्तमभङ्गकेष्विति गाथार्थः ॥६६२॥ गतं लिप्तद्वारम् । अधुना छर्द्दितद्वारमाह - छर्द्दितमुज्झितं त्यक्तं क्षिप्तमित्येकोऽर्थः, तदपि च सचित्ताऽचित्त-मिश्रभेदात् त्रिधा भवतीत्याह (टि०) १. ०त्थे जे१ खं० ॥ २. ०तेसु जे१ विना ॥ ३. अचित्त जि० ॥ = (वि०टि० ) . कट्टरं = तीमनोन्मिश्रघृतवटिकारूपं इति मलय० ॥ * फाणितं = गुडपानकं इति मलय० ॥ 7. सपिण्डरसं = द्रवगुडो खर्जूरादि च ॥ 8. शेषभङ्गकाश्च अमी- संसृष्टो हस्तोऽसंसृष्टं मात्रकं निरवशेषं द्रव्यं (४) असंसृष्टो हस्तः संसृष्टं मात्रकं सावशेषं द्रव्यं (५) असंसृष्टो हस्तः संसृष्टं मात्रकं निरवशेषं द्रव्यं ( ६ ) असंसृष्टो हस्तोऽसंसृष्टं मात्रकं सावशेषं द्रव्यं (७) असंसृष्ट हस्तो संसृष्टं मात्रकं निरवशेषं द्रव्यं ( ८ ) ॥ इह हस्तो मात्रं वा द्वे वा स्वयोगेन संसृष्टे वा भवतोऽसंसृष्टे वा न तद्वशेन पश्चात्कर्म सम्भवति, किं तर्हि ? द्रव्यवशेन, तथाहि - यत्र द्रव्यं सावेशषं तत्रैव साध्वर्थं खरण्टितेऽपि न दात्री प्रक्षालयति, भूयोऽपि परिवेषणसम्भवात् यत्र तु निरवशेषं द्रव्यं तत्र साधुदानानन्तरं नियमतः तद्द्द्रव्याधारस्थालीं हस्तं मात्रं वा प्रक्षालयति ततो द्वितीयादिषु भङ्गेषु द्रव्ये निरवशेषे पश्चात्कर्मसम्भवान्न कल्पते, प्रथमादिषु तु पश्चात्कर्मासम्भवात् कल्पते इति मलय०॥

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226