Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust
View full book text
________________
१६८
॥ सवृत्तिपिण्डनियुक्तिः ॥ द्रष्टव्या॥७०२॥ एनामेव गाथां विवृण्वन्नाह
आयंको जरमादी राया-सण्णायगाइ उवसग्गो।
बंभवयंपालणट्ठा पाणिदया वास-महिगादी॥७०३॥ आयंको गाहा। व्याख्या- आतङ्को ज्वरा-ऽक्षिरोगादिस्तस्मिंश्चोत्पन्ने न भुञ्जीत, यत उक्तम्
बलाविरोधि निर्दिष्टं ज्वरादौ लङ्घनं हितम्।
ऋतेऽनिल-श्रम-क्रोध-शोक-काम-क्षतज्वरान्॥१॥ () तथा राज-स्वजनाद्युपसर्गे जाते दिव्य-मनुष्य-तिर्यक्कृतोपसर्गे वा तदुपशमनाय नाश्नीयात्, मोहोदये सति ब्रह्मव्रतपालनार्थं न भुञ्जीत, उक्तं च
विषया विनिवर्तन्ते निराहारस्य देहिनः।
रसवर्ज रसोऽप्येवं परं दृष्ट्वा निवर्त्तते॥१॥ (गीता २/५९) तथा प्राणिदयार्थं वर्षे वर्षति सति महिकायां च निपतन्त्यां आदिशब्दात् सूक्ष्ममण्डूकिकादिसंसक्तभूमौ न अद्याद् अतः प्राणिदया महापुण्यफला, उक्तं च
दक्षा नारकवेश्मनां प्रतिहतौ पट्वी कुयोनिक्षितौ, हन्त्री रोगचयस्य पापमथनी वामृतत्वस्य तु। कीनाशोद्धतबाहुसूक्ष्मदलनप्राप्तोत्तमत्वाखिला,
साध्वी जीवदया जयत्यपमला मूद्धिर्न स्थिता श्रेयसाम्॥१॥ () इति गाथार्थः॥७०३॥
तवहेउ चउत्थादी जाव य छम्मासिओ तवो होइ।
छटुं सरीरवोच्छेदणट्ठया होयऽणाहारो॥७०४॥ तवहेउ गाहा। व्याख्या- तपोहेतोर्न भुञ्जीत तच्च तपश्चतुर्थाद् आरभ्य यावत् षण्मासान्तं भवति। षष्ठमिदं कारणं संयमासमर्थशरीरव्यवच्छेदनार्थं भवत्यनाहारः साधुरिति गाथार्थः॥७०४॥
एतेहिं छहिं ठाणेहिं अणाहारो उ जो भवे।
धम्मं नातिक्कमे भिक्खू धम्मझाणरतो भवे॥७०५॥ एएहिं सिलोगो। एभिरनन्तरोक्तैः षड्भिः स्थानैरनाहारस्तु यो भवेत् स धर्म नातिक्रमेद् भिक्षुर्धमध्यानरतश्च भवेदिति श्लोकार्थः॥७०५॥
उक्तं कारणद्वारम्, तदभिधानाच्च उक्ता ग्रासैषणा, तदुक्तौ भावगवेषणैषणा-ग्रहणैषणा-ग्रासैषणाभेदभिन्ना त्रिविधाऽप्येषणा समाप्तेति। अस्या एव समस्तदोषसङ्कलनायाह
(टि०) १. दृष्टा जि० जि१॥ २. श्लक्ष्णम० जि१॥ ३. श्रेयसी जि० जि१॥ ४. तु खं०॥ ५. य जे१॥ ६. ०क्ख जणजोगगओ भ० जे१॥ ७. इयं गाथा मलयवृत्तौ न दृश्यते॥ ८. इत ऊर्द्धं जि१ प्रतौ नोपलभ्यते॥

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226