Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust
View full book text
________________
॥ अशठस्य विराधनाऽपि निर्जराफला ॥
सोलस उग्गमदोसा सोलस उप्पायणाए दोसा तु ।
दस एसणाय दोसा संजोयणमादि पंचेव ॥७०६ ॥
सोलस उग्गम० गाधा। व्याख्या - तत्र गवेषणासमुत्थिताः षोडशोद्गमदोषाः, उत्पादनासमुत्थिताः षोडशोत्पादनादोषाः, ग्रहणैषणासमुत्थिता दशैषणादोषाः, ग्रासैषणासमुत्थिताः संयोजनादयः पञ्च ग्रासैषणादोषाः, एते सर्वेऽपि मीलिताः सप्तचत्वारिंशदेषणादोषा भवन्तीति गाथार्थः ॥७०६ ॥
एतान् दोषान् विशोधयन् पिण्डं विशोधयति, तद्विशुद्धौ चारित्रशुद्धिः, तच्छुद्धौ च मुक्तिसम्प्राप्तिः, उक्तं च
एए विसोहयंतो पिंडं सोहेइ संसओ णत्थि । एए अविसोहंते चरित्तभेयं वियाणाहि ॥ १ ॥ समणत्तणस्स सारो भिक्खायरिया जिणेहिं पण्णत्ता ।
एत्थ परितप्यमाणं तं जाणसु मंदसंवेगं ॥२॥ ( व्य० भा० २४८४ ) णाणचरणस्स मूलं भिक्खायरिया 'जिणेहिं पण्णत्ता ।
एत्थ उ उज्जममाणं तं जाणसु तिव्वसंवेगं ॥ ३ ॥ पिंडं असोहयंतो अचरित्ती एत्थ संसओ णत्थि । चारित्तंमि असंते णिरत्थिया होइ दिक्खा उ ॥४॥ चारित्तंमि असंतंमि णेव्वाणं ण उ गच्छओ (? इ) ।
णेव्वाणंमि असंतंमि सव्वा दिक्खा निरत्थिया ॥ ५ ॥ ( व्य० भा० २४१६ )
उग्गम - उप्पायण - एसणासु चारित्तरक्खणट्ठाए । पिंडं सेज्ज उवहिं सोर्हेतो होइ सचरित्ती ॥ ६ ॥ ( )
तस्मादेतैरुद्गमादिदोषैः परिशुद्धः पिण्ड एषितव्य इति ।
( व्य० भा० २४८५ )
एसो आहारविही जह भणिओ सव्वभावदंसीहिं । धम्मावस्सगजोगा जेण न हायंति तं कुज्जा ॥७०७ ॥
=
१६९
एसो गाहा । ( व्याख्या - ) 'एष' इति यः प्रोक्त आहारविधिः पिण्डविधिरेषणाविशुद्ध इत्यर्थः, यथा = येन प्रकारेण भणितः सर्वभावदर्शिभिः तीर्थकरैर्यथोक्तः तथा मयाऽपि कालानुरूपमिति
स्व (मति) विभवेन व्याख्यात इति वाक्यशेषः ।
=
गाथापश्चार्द्धेनापवादमाह- धर्म्मावश्यकयोगा येन हानिं न गच्छन्ति तत् कुर्यात्, सर्व्वशास्त्राणि सापवादानीति कृत्वा। धर्मे (? म्र्मो) द्विविधः - श्रुतधर्म्मश्चारित्रधर्म्मश्च, धर्म्मावश्यकयोगा येन प्रकारेण न
(टि०) १. इत ऊर्द्ध ला० प्रतौ नोपलभ्यते ॥ २. संवत् १२०९ कार्तिक वदि १२ सोमे पुस्तिकेयं लिखितेति ॥ छ ॥ मंगलं महाश्री॥छ॥ खं०। पिण्डनिर्युक्तिसूत्रं समाप्तमिति । मंगलं महाश्रीः शिवमस्तु सर्व्वजगतः जे२ । महल्लियापिंडनिजुत्ती सम्मत्ता ॥ छ ॥ जे१॥

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226