Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust
View full book text
________________
१७०
॥ सवृत्तिपिण्डनियुक्तिः ॥ हानि व्रजन्ति तत् कर्त्तव्यं उत्सर्गापवादस्थितेन भवितव्यमित्यर्थः॥७०७॥ अपवादमासेवमानस्य अशठस्य विराधनाऽपि निर्जराफलैवेत्याह
जा जयमाणस्स भवे विराहणा सुत्तविहीसमग्गस्स।
सा होति निजरफला अज्झत्थविसोहिजुत्तस्स ॥७०८॥ जा जयमाणस्स गाहा। (व्याख्या-) यो यतमानस्य चारित्रधर्मे सुस्थितस्य पणगपरिहाणीए जयमाणस्सेत्यर्थो विराधना सूत्रार्थोभयविदुषो बहुश्रुतस्येत्यर्थः सा अपवादप्रत्यया विराधना 'तस्ये'ति साधोर्निर्जरफला भवति, किम्भूतस्य ? अध्यात्मविशुद्धियुक्तस्य = रागद्वेषरहितस्येत्यर्थः। इयमत्र भावना- कृतयोगिनो गीतार्थस्य कारणिकस्य यतनया अपवादविषया विराधना मोक्षफला भवतीति गाथार्थः॥७०८॥ ___एवं नामनिष्पन्ने निक्षेपे द्विपदे पिण्डपदं एषणापदं च ते च व्याख्यातेन(?) (तद्)व्याख्यानाच्चाभिहितो नामनिष्पन्नो निक्षेपस्तदभिधानाच्च परिसमाप्ता पिण्डनियुक्तिरिति॥छ॥ छ॥
पिण्डाध्ययनसमाश्रितनिर्युक्तेर्विवरणं विधाय शुभं यत् कुशलं सम्प्राप्तं तेन सुखी भवतु भव्यजनः॥छ॥ मंगलं महाश्रीः॥छ॥॥छ॥ शिवमस्तु सर्वजगतः॥छ॥

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226