Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 200
________________ || संयोजनानिरूपणम् ॥ १६१ पञ्चविधा तद्विपरीता प्रशस्ता त्विति गाथार्थः ॥६७१॥ तत्र अप्रशस्तभावग्रासैषणा– संयोजना, अतिबहुकं, साङ्गारं, सधूमकं अनर्थायेत्येवं पञ्चधा, प्रशस्ता त्वेतद्विपरीतेति । तत्र संयोजनामाह दव्वे भावे संजोयणा तु दव्वे दुहा तु बहि अंतो। भिक्खं चि हिंडतो संजोए तंमि बाहिरिया ॥ ६७२ ॥ दव्वे गाधा । व्याख्या- द्रव्ये भावे संयोजना तु द्रव्ये संयोजना द्विधा तु बहिरन्तश्च, भिक्षामेव हिण्डमानः संयोजयति आहारमेषा बाह्यसंयोजनेति गाथार्थः ॥ ६७२ ॥ तामेव स्पष्टयन्नाहखीर - दहि- सूव - कट्टरलंभे गुड सप्पि - वडग वालुंके । अंतो तु तिहा पाए लंबण वदणे विभासा तु ॥ ६७३ ॥ - खीर० गाधा। व्याख्या - क्षीर-दधि - सूप - कट्टरलाभे सति गुड-सर्पिर्वटक- वालुङ्कादीनां च लाभे भिक्षामटन्नेव संयोजयत्येषा बाह्यसंयोजना; अन्तस्त्वियं त्रिविधा, तद्यथा - पात्रे, लम्बने वदने च 'विभाषे 'ति व्याख्या, सा चेयं - यद् यद् रसोपकारिद्रव्यं तत् तत् पात्रे संयोजयति, वालुङ्क-वटकवृन्ताक-कार-चेल्लादि संयोजयति लम्बने = कवले, तथा वदने प्रक्षिप्य लम्बनं ततः शालनकं प्रक्षिपति पश्चादिति वदनसंयोजनेति गाथार्थः ॥६७३॥ द्रव्यसंयोजनया त्वात्मानं राग-द्वेषाभ्यां संयोजयतीत्याहसंजोयणाए दोसा जो संजोएइ भत्तपाणं तु । दव्वाइं रसहेउं उवघाओ तस्सिमो होदि ॥ ६७४ ॥ संजोयणाए गाहा । व्याख्या - संयोजनायां दोषाः, यः संयोजयति भक्तपानं तु द्रव्यादिरसहेतुं उपघातस्तस्यायं भवतीति गाथार्थः ॥६७४ ॥ संजोयणा तु भावे संजोतो ताइं दव्वाई । संजोययतो कम्मं कम्मेण भवं ततो दुक्खं ।। ६७५।। संजोयणा गाहा। व्याख्या - संयोजना तु भावे - संयोजयन्नपि तानि गुड - दध्यादीनि द्रव्याणि संयोजयति = बध्नातीत्यर्थः कर्म्म आत्मनि कर्म्मणा च भवं = संसारं निर्वर्त्तयति ततो भवाद् दुःखमधिगच्छतीति गाथार्थः॥६७५॥ संयोजनापवादमाह– पत्तेय पउरलंभे भुत्तुव्वरिते य सेस गमणट्ठा । दिट्ठो संजोगो खलु अह क्कमो तस्सिमो होदि ॥ ६७६ ॥ पत्तेय गाहा। व्याख्या– प्रत्येकं = एकैकं साधुं प्रति घृतादिप्रचुरलाभे 'भुत्तुव्वरिए 'त्ति भुक्तशेषे (टि०) १. ०त्मनि जि१ ॥ २. ०जोएतो खं० । ०जोएऊण जे२,४ भां० ॥ ३. ०यते य जे२ । ०यते उ जे१ ॥ ४.०मपि गच्छ० जि१ ॥ ५. ० सगाणं पि । गमणट्ठा संजोयण घयसत्तु गुलादियं कुज्जा खं० ॥ ६. य खं० ॥

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226