________________
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
ओदण० गाहा। व्याख्या - ओदन- मण्डक-सक्तुक - कुल्माष - राजमाष-कलाय - वल्ल - तुवरीमसूर - मृद्ग- माषाश्चैतानि अलेपद्रव्याणि शुष्कानीति गाथार्थः ॥ ६५९ ॥ अल्पलेपद्रव्यप्रकाशनायाह— उब्भिज्ज पेज्ज कूरो तक्कोल्लण - सूव - कंजि - कढियादी । एए तु अप्पलेवा पच्छाकम्मं तहिं भइयं ॥ ६६०।।
२
१५८
उब्भज्जि गाहा। व्याख्या– 'उब्भज्जी 'त्ति भर्जिका वस्तुल- चिल्लीशाकादिकृता, पेया यवागूः, कूरं कोद्रवौदनम्, तक्रम्, उल्लणं येनौदनाद्रीक्रियते, सूपः, काञ्जिकम्, क्वथितिकेत्येवमादीनि एतानि अल्पलेपानि पश्चात्कर्म्म तेषु भाज्यमिति गाथार्थः ॥ ६६० ॥ बहुलेपद्रव्यकथनायाह
खीर - दहि-जाउ - कट्टर - तेल्ल-घयं फाणियं सपिंडरसं । इच्चादी बहुलेवं पच्छाकम्मं तहिं नियमा ।। ६६१॥
खीर० गाहा। व्याख्या— क्षीरं, दधि, 'जायु' त्ति क्षीरपेया, कट्टरं, तैलं घृतं, फाणितं, सपिण्डरसमित्यादि द्रव्यकदम्बकं बहुलेपं पश्चात्कर्म्म तत्र नियमाद् भवतीति गाथार्थः ॥ ६६१॥ साम्प्रतं अल्पलेपद्रव्यपश्चात्कर्म्मभजनां अष्टभङ्गिकया कथयन्नाह—
संसङ्केतर हत्थो मत्तो वि य दव्व सावसेसितरं ।
अभंगा नियमा गहणं तु ओएसु ॥ ६६२ ।।दारं ॥
संसट्ठेयर गाधा। व्याख्या- तत्र दातुः संसृष्टोऽसंसृष्टो वा हस्तो भवति, मात्रकमपि च संसृष्टमितरद् वा, द्रव्यमपि सावशेषं इतरद् वाऽसावशेषमिति एषां त्रयाणां संसृष्टहस्त-संसृष्टमात्र - सावशेषद्रव्यपदानां अष्टौ भङ्गा भवन्ति। ते चामी - संसृष्टो हस्तः संसृष्टं मात्रकं सावशेषं द्रव्यमिति प्रथमो भङ्गकः (१) संसृष्टो हस्तः संसृष्टं मात्रकं निरवशेषं द्रव्यमिति द्वितीयो भङ्गकः (२) संसृष्टो हस्तोऽसंसृष्टं मात्रकं सावशेषं द्रव्यमिति तृतीयः (३) इत्येवमष्टौ भङ्गा भावनीयाः । तत्र नियमाद् ग्रहणं तु भवति 'ओजेसु'त्ति विषमेषु प्रथम-तृतीय-पञ्चम-सप्तमभङ्गकेष्विति गाथार्थः ॥६६२॥
गतं लिप्तद्वारम् । अधुना छर्द्दितद्वारमाह - छर्द्दितमुज्झितं त्यक्तं क्षिप्तमित्येकोऽर्थः, तदपि च सचित्ताऽचित्त-मिश्रभेदात् त्रिधा भवतीत्याह
(टि०) १. ०त्थे जे१ खं० ॥ २. ०तेसु जे१ विना ॥ ३. अचित्त जि० ॥
=
(वि०टि० ) . कट्टरं = तीमनोन्मिश्रघृतवटिकारूपं इति मलय० ॥ * फाणितं = गुडपानकं इति मलय० ॥ 7. सपिण्डरसं = द्रवगुडो खर्जूरादि च ॥ 8. शेषभङ्गकाश्च अमी- संसृष्टो हस्तोऽसंसृष्टं मात्रकं निरवशेषं द्रव्यं (४) असंसृष्टो हस्तः संसृष्टं मात्रकं सावशेषं द्रव्यं (५) असंसृष्टो हस्तः संसृष्टं मात्रकं निरवशेषं द्रव्यं ( ६ ) असंसृष्टो हस्तोऽसंसृष्टं मात्रकं सावशेषं द्रव्यं (७) असंसृष्ट हस्तो संसृष्टं मात्रकं निरवशेषं द्रव्यं ( ८ ) ॥ इह हस्तो मात्रं वा द्वे वा स्वयोगेन संसृष्टे वा भवतोऽसंसृष्टे वा न तद्वशेन पश्चात्कर्म सम्भवति, किं तर्हि ? द्रव्यवशेन, तथाहि - यत्र द्रव्यं सावेशषं तत्रैव साध्वर्थं खरण्टितेऽपि न दात्री प्रक्षालयति, भूयोऽपि परिवेषणसम्भवात् यत्र तु निरवशेषं द्रव्यं तत्र साधुदानानन्तरं नियमतः तद्द्द्रव्याधारस्थालीं हस्तं मात्रं वा प्रक्षालयति ततो द्वितीयादिषु भङ्गेषु द्रव्ये निरवशेषे पश्चात्कर्मसम्भवान्न कल्पते, प्रथमादिषु तु पश्चात्कर्मासम्भवात् कल्पते इति मलय०॥