________________
॥ लिप्तदोषनिरूपणम् ॥
१५७
जड़ से गाधा । व्याख्या - यदि 'से' त्ति साधोर्न योगहानिः साम्प्रतं एष्यत्काले वा भवति ततः क्षपणं करोतु, क्षपणान्तरेऽप्याचाम्लं करोतु नियतं वा तदाचाम्लं करोतु यदि शक्नोतीति गाथार्थः॥६५४॥ चोदक आह
'हेट्ठावणि कोसलया सोवीरग- कूरभोइणो मणुया ।
जड़ ते वि जवंति तहा किं नाम जती ण जवंति ।। ६५५ ।। हेट्ठा० गाहा। व्याख्या– ‘हेट्ठावणि' त्ति महाराष्ट्रास्तथा कोशलदेशोद्भवाः सौवीरक- कूरभोजिनो मनुजा यदि तेऽपि यापयन्ति तथा किमिति नाम यतयो न यापयन्ति, अपि तु यापयन्त्येवेति गाथार्थः॥६५५॥ गुरुराह
तिय सीयं समणाणं तिय उण्ह गिहीण तेणऽणुण्णायं । तक्कादीणं गहणं कट्टरमादीसु भतियव्वं ॥ ६५६ ॥
तीय सीयं गाहा । व्याख्या- त्रिकं शीतं श्रमणानां वक्ष्यमाणं तदेव त्रिकमुष्णं गृहिणां तेन कारणेनानुज्ञातं तक्रादीनां ग्रहणं साधूनां, कट्टरादिषु = घृतवटिकोन्मिश्रतीमनादिषु ग्रहणं भाज्यमिति गाथार्थः॥६५६॥ किं तत् त्रिकम् ? इत्याह
आहार - उवहि- सेज्जा तिण्णि वि उण्हा गिहीण सीते वि । तेण उ जीरति तेसिं दुहओ उसिणेण आहारो ॥६५७ ॥
=
आहार० गाहा। व्याख्या - आहारोपधि - शय्यास्तिस्रोऽपि उष्णा गृहिणां शीतेऽपि शीतकालेऽपि तेन तु जीर्यति तेषां 'दुहओ'त्ति उभयतो- बाह्यतोऽभ्यन्तरतश्चोष्णेन आहार इति गाथार्थः॥६५७॥
एयाइं चिय तिण्णि वि जतीण सीयाइं होंति गिम्हे वि । तेणुवहम्मति अग्गी ततो ये दोसा अजीरादी ॥ ६५८ ॥
एयाइं चिय गाहा। व्याख्या - एतान्येव त्रीण्यपि पूर्वोक्तानि शीतानि भवन्ति ग्रीष्मेऽपि तेन कारणेनोपहन्यते अग्निः जाठरः, तस्माच्चाग्न्युपघांताद् दोषा भवन्त्यजीर्णादयो, यस्मान्न केवलमन्तर्गतेनैव जठराग्निना आहारः पच्यते किन्तु तक्रादिनाऽपि आहारपक्तिर्भवतीति, अतोऽनुज्ञातं तक्रादीनां ग्रहणं साधूनामिति गाथार्थः ॥ ६५८ ॥ अलेपद्रव्यप्रदर्शनायाह
ओदण-मंडग-सत्तुग- कुम्मासा रायमास - कल - वल्ला । तूवरि- मसूर - मुग्गा मासा य अलेवडा सुक्का ॥ ६५९॥
(टि०) १. उ जे१ ॥ २. अस्या गाथाया अनन्तरं अधिका गाथा जे२ प्रतौ उपलभ्यते सा चेयम् - जइ एय विप्पहूणा तव नियम गुणा भवे निरवसेसा । आहारमाइयाणं को ताण परिग्गहं कुज्जा |
(वि०टि०) कलाः = वृत्तचनकाः सामान्येन वा चनकाः इति मलय० । कलायः = प्र०सा०वृ०गा० ९९७ ॥
त्रिपुटाख्यो धान्यविशेषः