Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 153
________________ ॥ सवृत्तिपिण्डनिर्युक्तिः ॥ सम्मं गाहा । व्याख्या- सम्यक्क्रियाऽसम्यक्क्रिया वाऽनेन कृता न्यूनाधिका विपरीता वा समिध- मन्त्रा -ऽऽहुति-स्थान- योग-काल-घोषादीनाश्रित्य सुकृतमसुकृतं वा वदतीत्यत्र भद्रकप्रान्तादिकृता दोषा इति गाथार्थः ॥ ४७४ ॥ उग्गादिकुलेसु वि एवमेव गणं मंडलप्पवेसादी । देउलदरिसण-भासाउवणयणे 'दंडमादीणं ॥ ४७५ ॥ ११४ उग्गाइ० गाहा । व्याख्या- - उग्रादिकुलेष्वेवमेव सूययाऽसूयया वा गुणदोषान् वक्तीति, गणमाश्रित्य मण्डलप्रवेशादि समयाचारं सूचयति, देवकुलदर्शन - भाषोपनयन- दण्डादीनां स्वरूपं प्रकाशयतीति गाथार्थः ॥ ४७५॥ कर्म्म-शिल्पविषयमाह कत्तरि पओयणावेक्ख वत्थु बहुवित्थरेसु एमेव । कम्मेसु य सिप्पेसु य सम्ममसम्मेसु सूयितरा ॥। ४७६ ॥ दारं ।। कत्तरि गाहा । व्याख्या- कर्तृप्रयोजनापेक्षवस्तुबहुविस्तरेष्वप्येवमेव कर्म्मसु शिल्पेषु च सम्यगसम्यग् वा वदति सूययाऽसूयया वेत्येवं जात्याद्याजीवनया यः पिण्डो लभ्यते स न कल्पते बहुदोषत्वादिति गाथार्थः ॥ ४७६ ॥ उक्तमाजीवनापिण्डद्वारम् । इदानीं वनीपकपिण्डद्वारमाह— वनीपक इति 'वनु याचने' (पा० धा० १४७० ) वनयति कृपणभावसन्दर्शनेन पिण्डमुत्पादयतीति वनीपकोऽर्थयिता निरुक्तिवशात्। स च पञ्चधा भवतीत्याह समणे माहण - किवणे अतिही साणे य होदि पंचमगे । वणि जायण त्ति वणिओ पायऽप्पणं वणेइ त्ति ॥४७७॥ समणे गाहा। व्याख्या– 'समणे' त्ति एकारान्तः शब्दः प्रथमान्तोऽत्र द्रष्टव्यः, श्रमणो ब्राह्मणः कृपणो अतिथिः श्वा च भवेति पञ्चमकः । व्युत्पत्तिमाह- वनु याचन इत्यस्य धातोर्वनीपकः, प्रायेणात्मना पिण्डादि वनयतीति वनीपक इति गाथार्थः ॥ ४७७॥ साधोर्वनीपकत्वप्रतिपादनायाहमयमातिवच्छगं पिव वणेति आहारमादिलोभेणं । समणेसु माहणेसु य किविणाऽतिहि साणभत्तेसु ।। ४७८ ॥ मयमाइ० गाधा । व्याख्या- वत्साया था कश्चिद् वत्सकं वनयति एवं साधुरप्यात्मानं श्रमणादिभक्तेषु वनयतीति “वन - षण सम्भक्तौ ” ( पा० धा० ४६३ - ४६४ ) इति अस्य रूपं "मित् सञ्ज्ञाऽप्रतिषेधात्, आत्मानं भक्तं दर्शयत्याहारादिलोभेन, केषु ? इत्याह- श्रमण-ब्राह्मण - कृपणातिथि-भक्तेष्विति गाथार्थः ॥ ४७८ ॥ श्रमणभेदानाह (टि०) १. ०कुलाइसु जे१ ॥ २. गणे खं० ॥ ३. ०मादीया जे४ भां० ॥ ४. ०यणे खं० ॥ ५. ०वतीति पञ्च०जि० जि१ ॥ ६. ० त्वं प्रतिपादयन्नाह जि१ ॥ (वि०टि० ) . वीरगणि-मलयगिरिसूरिमते तु 'दंडमादीया' इति पाठः स्यात् ॥ V. मृता पञ्चत्वमुपगता माता वत्सकस्य = तर्णकस्य तमिव गोपलकोऽन्यस्यां गवीति शेषः... इति मलय० ॥ *. 'म' अनुबन्ध इति ला०टि० ॥

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226