Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust
View full book text
________________
॥ सवृत्तिपिण्डनियुक्तिः ॥ षट्कायव्यग्रहस्तादात्रीस्वरूपमाह
लोण-दग-अगणि-बत्थी फलादि मच्छादि सजिय हत्थंमि।
पाएंणोगाहणया संघट्टण सेसकाएणं॥६२५॥ लोण० गाहा। व्याख्या- लवणं उदकं अग्निर्वायुपूरितबस्तिः फलादि सजीवमत्स्यादयश्च हस्ते यस्याः सा यदि ददाति एतांश्च लवणादीन् श्रमणार्थं निक्षिप्य वा ददाति ततो न कल्पते पिण्डो ग्रहीतुं, पादाभ्यां लवणाधवगाहनां कुर्व्वती तथा सङ्घनां शेषकायेन कुर्वाणा यदि ददाति ततो न ग्राह्यं पिण्डादीति गाथार्थः॥६२५॥ आरभमाणादात्रीस्वरूपमाह
खणमाणी आरभते मजइ धोवइ व सिंचइ वा किंचि।
छेद-विसारणमादी छिंदइ छट्टे फुरुफुरते॥६२६॥ खणमाणी गाहा। व्याख्या-खनमाना पृथिवीमारभते, मजति स्वयं धावति वा वस्त्रादि सिञ्चति वा किञ्चिदित्येवं अप्कायमारभते, ज्वलयन्ती समारभतेऽग्निम्, फूत्कुर्वाणा दृत्यादि वायुमारभते, शाकादेश्छेद-विशारणादि कुर्व्वती वनस्पतिमारभते, छिनत्ति मत्स्यादीन् षष्ठे त्रसकायसमारम्भे, 'फुरुफुरते'त्ति स्फुरन्त इत्येवं षट्कायान् समारम्भमाणाया हस्तान्न ग्राह्या भिक्षेति गाथार्थः॥६२६॥ केचिन्मतप्रदर्शनायाह
छक्कायवग्गहत्थ त्ति केइ कोलादि कण्णलइयाई।
सिद्धत्थगपुप्फाणि य सिरम्मि दिण्णाई वजेति॥६२७॥ छक्काय० गाहा। व्याख्या- षट्कायव्यग्रहस्तेति केचन आचार्य्याः ‘कोलाई बदरादीनि कर्णे पिनद्धानि तथा सिद्धार्थकपुष्पाणि च शिरसि दत्तानि वर्जयन्ति = प्रतिषेधयन्तीति गाथार्थः॥६२७॥
अण्णे भणंति दससु वि एसणदोसेसु णत्थि तग्गहणं।
तेण न वजं भण्णइ णणु गहणं दायगग्गहणा॥६२८॥ अण्णे गाहा। व्याख्या- अन्ये भणन्ति दशस्वप्येषणादोषेषु नास्ति तद्ग्रहणं तेन कारणेन न वर्ज कोलादियुक्तदात्रीभिक्षादानम्; अत्र भण्यते ननु भणितं सूत्रे दायकग्रहणादिति गाथार्थः॥६२८॥
संसक्तद्रव्यदात्रीदोषानाह
(टि०) १. च ला०॥ २. ०चए किं० भां० जे२,४॥ ३. ०फुरेती खं०॥ ४. विदारणादि जि१॥ ५. सिरेइ जे१॥ ६. सकायानां जि१॥ (वि०टि०) .. शेषकायेन = हस्तादिना इति मलय०॥ . विशारणम् = पुष्पफलादेः खण्डानां शोषणायातपे मोचनं इति मलय०॥ १. हस्तग्रहणं हि किल सूत्रे उपलक्षणं तेन कर्णे शिरसि वा जीवनिकायसम्भवे तद्धस्तान्न कल्पते, तन्मतेन षट्कायव्यग्रहस्तेति पदात् षट्कायं सङ्घट्टयन्तीत्यस्य पदस्य विशेषो दुरुपपाद इति मलय०॥

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226