________________
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
सम्मं गाहा । व्याख्या- सम्यक्क्रियाऽसम्यक्क्रिया वाऽनेन कृता न्यूनाधिका विपरीता वा समिध- मन्त्रा -ऽऽहुति-स्थान- योग-काल-घोषादीनाश्रित्य सुकृतमसुकृतं वा वदतीत्यत्र भद्रकप्रान्तादिकृता दोषा इति गाथार्थः ॥ ४७४ ॥
उग्गादिकुलेसु वि एवमेव गणं मंडलप्पवेसादी । देउलदरिसण-भासाउवणयणे 'दंडमादीणं ॥ ४७५ ॥
११४
उग्गाइ० गाहा । व्याख्या- - उग्रादिकुलेष्वेवमेव सूययाऽसूयया वा गुणदोषान् वक्तीति, गणमाश्रित्य मण्डलप्रवेशादि समयाचारं सूचयति, देवकुलदर्शन - भाषोपनयन- दण्डादीनां स्वरूपं प्रकाशयतीति गाथार्थः ॥ ४७५॥ कर्म्म-शिल्पविषयमाह
कत्तरि पओयणावेक्ख वत्थु बहुवित्थरेसु एमेव ।
कम्मेसु य सिप्पेसु य सम्ममसम्मेसु सूयितरा ॥। ४७६ ॥ दारं ।। कत्तरि गाहा । व्याख्या- कर्तृप्रयोजनापेक्षवस्तुबहुविस्तरेष्वप्येवमेव कर्म्मसु शिल्पेषु च सम्यगसम्यग् वा वदति सूययाऽसूयया वेत्येवं जात्याद्याजीवनया यः पिण्डो लभ्यते स न कल्पते बहुदोषत्वादिति गाथार्थः ॥ ४७६ ॥ उक्तमाजीवनापिण्डद्वारम् । इदानीं वनीपकपिण्डद्वारमाह— वनीपक इति 'वनु याचने' (पा० धा० १४७० ) वनयति कृपणभावसन्दर्शनेन पिण्डमुत्पादयतीति वनीपकोऽर्थयिता निरुक्तिवशात्। स च पञ्चधा भवतीत्याह
समणे माहण - किवणे अतिही साणे य होदि पंचमगे । वणि जायण त्ति वणिओ पायऽप्पणं वणेइ त्ति ॥४७७॥ समणे गाहा। व्याख्या– 'समणे' त्ति एकारान्तः शब्दः प्रथमान्तोऽत्र द्रष्टव्यः, श्रमणो ब्राह्मणः कृपणो अतिथिः श्वा च भवेति पञ्चमकः । व्युत्पत्तिमाह- वनु याचन इत्यस्य धातोर्वनीपकः, प्रायेणात्मना पिण्डादि वनयतीति वनीपक इति गाथार्थः ॥ ४७७॥ साधोर्वनीपकत्वप्रतिपादनायाहमयमातिवच्छगं पिव वणेति आहारमादिलोभेणं ।
समणेसु माहणेसु य किविणाऽतिहि साणभत्तेसु ।। ४७८ ॥
मयमाइ० गाधा । व्याख्या- वत्साया था कश्चिद् वत्सकं वनयति एवं साधुरप्यात्मानं श्रमणादिभक्तेषु वनयतीति “वन - षण सम्भक्तौ ” ( पा० धा० ४६३ - ४६४ ) इति अस्य रूपं "मित् सञ्ज्ञाऽप्रतिषेधात्, आत्मानं भक्तं दर्शयत्याहारादिलोभेन, केषु ? इत्याह- श्रमण-ब्राह्मण - कृपणातिथि-भक्तेष्विति गाथार्थः ॥ ४७८ ॥ श्रमणभेदानाह
(टि०) १. ०कुलाइसु जे१ ॥ २. गणे खं० ॥ ३. ०मादीया जे४ भां० ॥ ४. ०यणे खं० ॥ ५. ०वतीति पञ्च०जि० जि१ ॥ ६. ० त्वं प्रतिपादयन्नाह जि१ ॥
(वि०टि० ) . वीरगणि-मलयगिरिसूरिमते तु 'दंडमादीया' इति पाठः स्यात् ॥ V. मृता पञ्चत्वमुपगता माता वत्सकस्य = तर्णकस्य तमिव गोपलकोऽन्यस्यां गवीति शेषः... इति मलय० ॥ *. 'म' अनुबन्ध इति ला०टि० ॥