________________
॥ वनीपकपिण्डनिरूपणम् ॥
११५
निग्गंथ-सक्क-तावस-गेरुय-आजीव पंचहा समणा।
तेसिं परिवेसणाए लोभेण वणेज को अप्पं ॥४७९॥ णिग्गंथ० गाहा। व्याख्या- निर्ग्रन्थ-शाक्य-तापस-गैरिका-ऽऽजीवक(काः?) पचधा 'समण'त्ति श्रमणशब्दवाच्यास्तेषां परिवेषणवेलायां लोभेन वनयेत् कश्चित् साधुरात्मानं, भक्तं दर्शयेदिति गाथार्थः॥४७९॥ कश्चित् साधुरुपासकगृहं भिक्षायै प्रविष्टः, तत्र शाक्यान् भुजानान् दृष्ट्वा तत्प्रशंसार्थमाह
भुंजंति चित्तकम्मट्टिता व कारुणिय दाणरुइणो य।
अवि कामगद्दभेसु वि ण णस्सते किं पुण जतीसु॥४८०॥ भुंजंति गाहा। व्याख्या- भुञ्जते चित्रकर्मस्थिता इव कारुणिका दानरुचयश्च, अपिः सम्भावने, कामगईभेष्वपि धिग्वर्णेषु दत्तं न नश्यति किं पुनरेतेषु यतिष्विति गाथार्थः॥४८०॥ अत्र दोषानाह
मिच्छत्तथिरीकरणं उग्गमदोसा य तेसु वा गच्छे।
चडुगारऽदिण्णदाणा पच्चत्थिग मा पुणो एंतु॥४८१॥ मिच्छत्त० गाहा। व्याख्या- मिथ्यात्वस्थिरीकरणमुद्गमदोषाश्च 'तेषु वा गच्छे'त्ति तेभ्य उपासकादिभ्यः सकाशादागच्छेयुः पञ्चम्यर्थे सप्तमी तेषु वा परतीर्थिकेषु कामिकाहारे लब्धरसो गच्छेत्, प्रद्विष्टा वा शाक्या एवं ब्रूयुश्चाटुकारिणोऽदत्तदानाः प्रत्यर्थिनः = प्रतिपक्षा मा पुनर्भवतां गृहमागच्छन्त्विति गाथार्थः॥४८१॥ साम्प्रतं ब्राह्मणभक्तानां पुरतो ब्राह्मणप्रशंसारूपं वनीपकत्वं यथा साधुः करोति तथा दर्शयन्नाह
लोगाणुग्गहकारिसु भूमीदेवेसु बहुफलं दाणं।
अवि णाम बंभबंधुसु किं पुण छक्कम्मणिरतेसु॥४८२॥ लोयाणुग्गह० गाहा। व्याख्या- लोकानुग्रहकारिषु भूमीदेवेषु बहुफलं भवति दानम्, अपि नाममात्रब्रह्मबन्धुषु किं पुनः षट्कर्मनिरतेषु = यजन-याजना-ऽध्ययना-ऽध्यापन-दान-प्रतिग्रहरतेष्विति गाथार्थः॥४८२॥ कृपणभक्तविषयवनीपकत्वदर्शनायाह
किवणेसु दुम्मणेसु य अबंधवाऽऽतंकजुंगियंगेसु।
पूयाहज्जे लोए दाणपडागं हरइ देंतो॥४८३॥ किवणेसु गाहा। व्याख्या- कृपणेषु दुर्मनस्सु च अबान्धवेषु आतङ्कयुक्तेषु जुङ्गिताङ्गेषु = विकलाङ्गेषु पूयाहजे' पूजाहार्ये लोके, पूजितपूजके इत्यर्थः, दानपताकां हरति दददिति (टि०) १. अप्पाणं जे१॥ २. ०ञ्चमाः ला० ॥ ३. वा जे१ विना॥ ४. इंतु खं० विना॥ ५. ०त्तादानाः जि० जि१॥ ६. ०त्वं र्शयन्नाह जि१॥ ७. न्याहेजे खं। व्यायहोज जे२॥ ८. देंती जे१॥