________________
११६
॥ सवृत्तिपिण्डनियुक्तिः ॥ गाथार्थः॥४८३॥ अतिथिविषयवनीपकत्वदर्शनायाह
पाएण देइ लोगो उवगारिसु परिचितेसुऽज्झुसिए वा।
जो पुण अद्धाखिण्णं अतिहिं पूएइ तं दाणं॥४८४॥ पाएण गाहा। व्याख्या- प्रायेण ददाति लोक उपकारिषु परिचितेषु अध्युषितेषु = तृप्तेषु निकटवर्त्तिषु वा यः पुनरध्वखिन्नमतिथिं पूजयति तद्दानं स दातेति गाथार्थः ॥४८४॥ श्वभक्तविषयवनीपकत्वप्रतिपादनायाह
अवि णाम होइ सुलभो गोण्यादीणं तणादिआहारो।
धिद्धिक्कारहताणं ण य सुलभो होदि सुणगाणं॥४८५॥ अवि णाम गाहा। व्याख्या- 'अपि नामेति सम्भावने भवति सुलभो गवादीनां तृणाद्याहारः धिग्धिक्कारहतानां न तु सुलभो भवति शुनामिति गाथार्थः॥४८५॥ श्वप्रशंसां कुर्वन् साधुरिदं पुनराह
केलासभवणा एते आगया गुज्झगा महिं।
चरंति जक्खरूवेणं पूयाऽपूय हियाऽहिया॥४८६॥ केलास सिलोगो। कैलासे भवनमेषां ते तथा एते आगता गृह्यका महीं चरन्ति यक्षरूपेण 'पूयाऽपूय हियाऽहिय'त्ति पूजया हिता अपूजया त्वहिता भवन्तीति श्लोकार्थः॥४८६॥ एवमुक्ते साधुना श्रमणादिभक्तो यच्चिन्तयति तदर्शयन्नाह
एतेण मज्झ भावो दिट्ठो लोए पायहेजंमि।
एक्कक्के पुव्वुत्ता भद्दग-पंतादिणो दोसा॥४८७॥ एतेण गाहा। व्याख्या- एतेन मम भावो दृष्टो = ज्ञात इति दानादौ प्रवर्तते 'लोए पणायहेजंमि'त्ति लोकस्य प्रणतिहार्य्यत्वाद्। एकैकस्मिन् वनीपकत्वे पूर्वोक्ता एव भद्रक-प्रान्तादयो दोषा इति गाथार्थः॥४८७॥ श्वग्रहणस्योपलक्षणतां दर्शयन्नाह
एमेव कागमादी साणग्गहणेण सूइया होति।
जो वा जम्मि पसत्तो वणेइ तहिं पुट्ठऽपुट्ठो वा॥४८॥ एमेव गाहा। व्याख्या- एवमेव काकादयः श्वग्रहणेन सूचिता भवन्ति यो वा यस्मिन् प्रसक्तस्तत्रात्मानं वनयति = भक्तं दर्शयत्याहाराद्यर्थं पृष्टोऽपृष्टो वेति गाथार्थः।।४८८॥ __ एवं कुतः साधोर्दोषगरीयस्त्वख्यापनायाह
दाणं ण होइ अफलं पत्तमपत्ते व संनिजुजंतं।
इय वि भणिएं दोसा पसंसओ किं पुण अपत्ते ?॥४८९॥ दारं॥ (टि०) १. होज खं० जे१ विना॥२. छिच्छिका० ख० जे४ भां०॥ ३. साणाणं जे१॥४. केइला० जे२॥५. ०णामहे० खं०॥ ६. दिया खं०॥७. तह जे१,२॥ ८.०त्तेसु सं० जे४ भां०॥ ९. य जे२॥ १०.०ए य दोसा जे२।११. संसिमो जे२॥