Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 177
________________ ॥ सवृत्तिपिण्डनिर्युक्तिः ॥ महु - घय- तेल्ल - गुलेहिं मा मच्छिपिपीलियाघातो ॥५७५ ॥ संसजिमेहिं गाहा । व्याख्या- संसक्तिमद्भिर्वर्जनीयं = वर्ज्यमगर्हितैरपि गोरसद्रवादिभि:, संसृष्टमिति शेषः, मधु-घृत-तैल- गुडादिभिरसंसक्तिमद्भिरपि यत्संसृष्टं तद्वर्जनीयं किमिति ? मा मक्षिका-पिपीलिकादीनां घातः स्यादिति गाथार्थः ॥ ५७५ ॥ गर्हितद्वैविध्यप्रदर्शनायाहमंस-वस-सोणियासव 'लोए वा गरहिएहिं उ विवज्जे । दुहओ वि गरहिएहिं मुत्तुच्चारेहिं छित्तं पि ॥ ५७६ ॥ दारं ॥ १३८ - मंस-वस० गाहा। व्याख्या- मांस वसा - शोणिता -ऽऽसवादिभिर्लोके वा गर्हितैर्यत्संसृष्टं तद् विवर्जयेत्; 'दुहतो वि'त्ति लोक - लोकोत्तरगर्हितैर्मूत्रोच्चारादिभिः स्पृष्टमपि आस्तां संसृष्टं वर्जयेत् सम्बन्धनीयमिति गाथार्थः ॥ ५७६ ॥ उक्तं म्रक्षितद्वारम् । सच्चित्तमीसएसुं दुविहं कासु होइ निक्खित्तं । एक्क्कं तं दुविहं अनंतर परंपरं चेव ॥ ५७७ ॥ ४ निक्षिप्तद्वारमाह- तत्र निक्षिप्तं न्यस्तं स्थापितमित्यनर्थान्तरम्, स्थानमाधेयं च त्रिविधं सचित्त-मिश्राऽचित्तभेदात् । अत्र च तिस्रश्चतुर्भङ्गिका भवन्ति, सचित्त-मिश्रपदाभ्यां एका, सचित्ताऽचित्तपदाभ्यां द्वितीया, मिश्रा -ऽचित्तपदाभ्यां तृतीयेति । तत्र आद्यचतुर्भङ्गिकाप्रथमभङ्गकं सचित्ते सचित्तं निक्षिप्तमित्येवं लक्षणं दर्शयन्नाह— पुढवी - आउक्काए तेऊ - वाऊ - वणस्सइ-तसाणं । एक्क्क दुहाणंतर परंपरऽगणिम्मि सत्तविहो ॥५७८॥ 9 पुढवी गाहा । व्याख्या - पृथिव्यप्काय - तेजो- वायु-वनस्पति- त्रसानामुपरि निक्षेपः, एकैकस्मिन् पृथिव्यादौ निक्षेपोऽनन्तरः परम्परश्च, अग्नौ त्वयं विशेषोऽनन्तर - परम्परनिक्षेपः प्रत्येकं सप्तति गाथार्थः॥५७८॥ स्वस्थान- परस्थाननिक्षेपप्रदर्शनायाह सच्चित्तपुढविकाए सच्चित्तो चेव पुढविणिक्खेवो । आऊ-तेऊ-वणस्सइ-समीरण - तसेसु एमेव ॥ ५७९ ॥ सचित्त० गाहा । व्याख्या- - सचित्तपृथिवीकाये सचित्त एव पृथिवीकायो निक्षिप्तोऽयं स्वस्थाननिक्षेपः; अप्काय-तेजो-वनस्पति- समीरण - त्रसेष्वेवमेव सचित्तपृथिवीकायो निक्षिप्तः परस्थाननिक्षेपः, यतः पृथिवीकायस्य अप्कायादीनि परस्थानानीति गाथार्थः ॥ ५७९ ॥ पृथिवीकायक्रमेण शेषकायातिदेशमाहएमेव सगाण विणिक्खेवो होइ जीवकायाणं । ७ (टि०) १. लोएस जे१ ॥ २. वज्र्जेतु जे२ । वज्जंतु जे१ ॥ ३. ०एसु जे१ ॥ ४. इयं गाथा केवलं जे२ मूलप्रतौ लभ्यते । प्रस्तुतवृत्तौ इयं गाथा न व्याख्याता । वीरगणिवृत्तौ तु व्याख्याता ॥ ५. दुगभेदो अनंतर खं० ॥ ६. ० निक्षेपे जि० । ० निक्षेपौ ला० ॥ ७. सेसका० जे२ ॥

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226