________________
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
महु - घय- तेल्ल - गुलेहिं मा मच्छिपिपीलियाघातो ॥५७५ ॥
संसजिमेहिं गाहा । व्याख्या- संसक्तिमद्भिर्वर्जनीयं = वर्ज्यमगर्हितैरपि गोरसद्रवादिभि:, संसृष्टमिति शेषः, मधु-घृत-तैल- गुडादिभिरसंसक्तिमद्भिरपि यत्संसृष्टं तद्वर्जनीयं किमिति ? मा मक्षिका-पिपीलिकादीनां घातः स्यादिति गाथार्थः ॥ ५७५ ॥ गर्हितद्वैविध्यप्रदर्शनायाहमंस-वस-सोणियासव 'लोए वा गरहिएहिं उ विवज्जे । दुहओ वि गरहिएहिं मुत्तुच्चारेहिं छित्तं पि ॥ ५७६ ॥ दारं ॥
१३८
-
मंस-वस० गाहा। व्याख्या- मांस वसा - शोणिता -ऽऽसवादिभिर्लोके वा गर्हितैर्यत्संसृष्टं तद् विवर्जयेत्; 'दुहतो वि'त्ति लोक - लोकोत्तरगर्हितैर्मूत्रोच्चारादिभिः स्पृष्टमपि आस्तां संसृष्टं वर्जयेत् सम्बन्धनीयमिति गाथार्थः ॥ ५७६ ॥ उक्तं म्रक्षितद्वारम् ।
सच्चित्तमीसएसुं दुविहं कासु होइ निक्खित्तं । एक्क्कं तं दुविहं अनंतर परंपरं चेव ॥ ५७७ ॥
४
निक्षिप्तद्वारमाह- तत्र निक्षिप्तं न्यस्तं स्थापितमित्यनर्थान्तरम्, स्थानमाधेयं च त्रिविधं सचित्त-मिश्राऽचित्तभेदात् । अत्र च तिस्रश्चतुर्भङ्गिका भवन्ति, सचित्त-मिश्रपदाभ्यां एका, सचित्ताऽचित्तपदाभ्यां द्वितीया, मिश्रा -ऽचित्तपदाभ्यां तृतीयेति । तत्र आद्यचतुर्भङ्गिकाप्रथमभङ्गकं सचित्ते सचित्तं निक्षिप्तमित्येवं लक्षणं दर्शयन्नाह—
पुढवी - आउक्काए तेऊ - वाऊ - वणस्सइ-तसाणं ।
एक्क्क दुहाणंतर परंपरऽगणिम्मि सत्तविहो ॥५७८॥
9
पुढवी गाहा । व्याख्या - पृथिव्यप्काय - तेजो- वायु-वनस्पति- त्रसानामुपरि निक्षेपः, एकैकस्मिन् पृथिव्यादौ निक्षेपोऽनन्तरः परम्परश्च, अग्नौ त्वयं विशेषोऽनन्तर - परम्परनिक्षेपः प्रत्येकं सप्तति गाथार्थः॥५७८॥ स्वस्थान- परस्थाननिक्षेपप्रदर्शनायाह
सच्चित्तपुढविकाए सच्चित्तो चेव पुढविणिक्खेवो । आऊ-तेऊ-वणस्सइ-समीरण - तसेसु एमेव ॥ ५७९ ॥
सचित्त० गाहा । व्याख्या- - सचित्तपृथिवीकाये सचित्त एव पृथिवीकायो निक्षिप्तोऽयं स्वस्थाननिक्षेपः; अप्काय-तेजो-वनस्पति- समीरण - त्रसेष्वेवमेव सचित्तपृथिवीकायो निक्षिप्तः परस्थाननिक्षेपः, यतः पृथिवीकायस्य अप्कायादीनि परस्थानानीति गाथार्थः ॥ ५७९ ॥ पृथिवीकायक्रमेण शेषकायातिदेशमाहएमेव सगाण विणिक्खेवो होइ जीवकायाणं ।
७
(टि०) १. लोएस जे१ ॥ २. वज्र्जेतु जे२ । वज्जंतु जे१ ॥ ३. ०एसु जे१ ॥ ४. इयं गाथा केवलं जे२ मूलप्रतौ लभ्यते । प्रस्तुतवृत्तौ इयं गाथा न व्याख्याता । वीरगणिवृत्तौ तु व्याख्याता ॥ ५. दुगभेदो अनंतर खं० ॥ ६. ० निक्षेपे जि० । ० निक्षेपौ ला० ॥ ७. सेसका० जे२ ॥