________________
॥ प्रक्षितदोषनिरूपणम् ॥
१३७ पृथिवीकायेन प्रक्षितं आर्गेण च, सर्वमप्येतत् पृथिवीम्रक्षितम्। अत ऊर्ध्वमुदकम्रक्षितं वक्ष्यामीति गाथार्थः॥५७०॥
पुर-पच्छकम्म-ससिणिद्भुदउल्ले चउरो आउभेया उ।
उक्कट्ठरसालित्तं परित्तऽणंतं महिरुहेसु॥५७१॥ पुर-पच्छ० गाहा। व्याख्या- पुरःकर्म-पश्चात्कर्म-सस्निग्धोदकास्वरूपा अप्कायम्रक्षितभेदास्तु चत्वारो भवन्ति, तुशब्दोऽन्तर्गतभेदसंसूचकः; वनस्पतिम्रक्षितं द्वितीयार्द्धनाह– उत्कृष्टरसेन लिप्तं प्रत्येका-ऽनन्तवनस्पतिसम्बन्धिना, 'महीरुहेसु' त्ति वनस्पतिकायविषये म्रक्षिते, तत्रोत्कृष्टशब्देन कालिङ्गा-ऽलाबु-त्रपुषफलादीनां शस्त्रकृतानि श्लक्ष्णखण्डानि भण्यन्ते चिश्चिणिकादिपत्रसमुदायो वा उदूखलखण्डित इति गाथार्थः॥५७१॥
सेसेहि उ काएहिं तीहि वि तेऊ-समीरण-तसेसु।।
सच्चित्तं मीसं वा ण मक्खियं अस्थि उल्लं वा॥५७२॥ सेसेहि उ गाहा। व्याख्या- शेषैस्तु कायैस्त्रिभिः ‘तेउ-समीरण-तसेसु' त्ति तेजः-समीरणत्रसैस्तृतीयार्थे सप्तमी सचित्तं मिश्रं वा न म्रक्षितमस्ति आर्दै वेति गाथार्थः॥५७२॥ पृथिव्यादिम्रक्षितभङ्गकप्रदर्शनायाह
सच्चित्तमक्खियम्मी हत्थे मत्ते य होइ चउभंगो।
आदितिए पडिसेहो चरिमो भंगो अणुण्णाओ॥५७३॥ सचित्त० गाहा। व्याख्या- सचित्तम्रक्षिते हस्ते मात्रे च भवन्ति चत्वारो भङ्गकास्ते चामीहस्तः संसृष्टो मात्रकं च प्रथमो भङ्गकः (१) हस्तः संसृष्टो न मात्रकं द्वितीयः (२) मात्रकं संसृष्टं न हस्त इति तृतीयः (३) उभयासंसृष्टश्चतुर्थः (४); आद्ये भङ्गकत्रये ग्रहणप्रतिषेधश्चरमभङ्गस्तु ग्रहणेऽनुज्ञात इति गाथार्थः॥५७३॥ साम्प्रतं अचित्तम्रक्षितं तद् द्विविधं- गर्हितमगर्हितं च, गर्हितं पुनर्द्विधा लोके उभयतश्च, अगर्हितमपि द्विधा- संसक्ता-ऽसंसक्तभेदात्। अमुमेवार्थमाह
अच्चित्तमक्खियंमी चउसु वि भंगेसु होइ भयणा उ।
अगरहिएण उ गहणं पडिसेहो गरहिए होइ॥५७४॥ अचित्त० गाहा। व्याख्या- अचित्तम्रक्षिते चतुर्ध्वपि भङ्गेषु पूर्वप्रदर्शितेषु भवति भजनाअगर्हितेन संसृष्टस्य देयस्य ग्रहणम्; प्रतिषेधो गर्हितसंसृष्टस्य भवति ग्रहणं प्रतीति गाथार्थः॥५७४॥ अगर्हितग्रहणव्यवस्थामाह
संसज्जिमेहि वजं अगरहिएहिं पि गोरसदवेहि। (टि०) १. ०पुरकम्म गा० ला०॥ २. सेहिं जे१ जे४ भा०॥ ३. अच्चि० जे१॥ ४. मीसगं जे१॥५. ०म्मि य ह० जे२॥ ६. ०के लोकोत्तरे उभ० जि१॥ (वि०टि०) .. 'चिश्चिणिका' आमली इति भाषायाम्॥