________________
॥ सवृत्तिपिण्डनियुक्तिः ॥ जारिसिय च्चिय गाहा। व्याख्या- यादृश्येव लद्धा बृहती भिक्षा मयाऽमुकगेहे अन्यैरपि मुनिभिस्तादृश्येव लब्धा विकटयताम् = आलोचयतां साधूनां निशामने = श्रवणे तृतीयो भङ्गको भवतीति गाथार्थः॥५६५॥ अत्राह चोदकः
जइ संका दोसकरी एवं सुद्धं पि होइ असुद्धं ।
णिस्संकमेसियं ति य अणेसणिज्ज पि णिहोसं॥५६६॥ __ जइ गाहा। व्याख्या- यदि शङ्का दोषकरी एवं सति शुद्धमपि वस्त्वशुद्धं भवति निःशङ्कमेषितमिति अनेषणीयमपि निर्दोष स्यादिति गाथार्थः॥५६६॥ अत्रोत्तरमाह
अविसुद्धो परिणामो एगयरे अपडिओ उ पक्खंमि।
एसि पि कुणति णेसिं अणेसिमेसिं विसुद्धो उ॥५६७॥ दारं॥ अविसुद्धो गाहा। व्याख्या- अविशुद्धः परिणाम एकतरस्मिन् अपतितश्च पक्षे शङ्कायुक्त इत्यर्थः, एषणीयमप्यनेषणीयं करोति विशुद्धपरिणामस्त्वनेषणीयमपि एषणीयं करोतीति गाथार्थः ॥५६७॥ तस्मान्निःशङ्कितं भोक्तव्यम्। उक्तं शङ्कितद्वारम्। इदानीं म्रक्षितद्वारमुच्यते- घृतादिना संसृष्टं म्रक्षितमिति, तद् द्विविधमित्याह
दुविहं च मक्खियं खलु सच्चित्तं चेव होइ अच्चित्तं।
तिविहं पुण सच्चित्तं अच्चित्तं होइ दुविहं तु॥५६८॥ दुविहं च गाहा। व्याख्या- द्विविधं च प्रक्षितं खलुशब्दः स्वगतानेकभेदसंसूचकः, तद्यथा'सच्चित्तं चेव होइ अचित्तमिति सचित्तेन प्रक्षितं अचित्तेन चेत्यर्थः, त्रिविधं पुनः सचित्तम्, अचित्तम्रक्षितं भवति द्विविधं तु॥५६८॥ एतदेव दर्शयन्नाह
पुढवी-आउ-वणस्सति तिविहं सच्चित्तमक्खियं होदि। ___अच्चित्तं पुण दुविहं गरहिय इयरे य भयणा उ॥५६९॥ पुढवी० गाहा। व्याख्या- पृथिव्युदक-वनस्पतिभिस्त्रिविधं सचित्तम्रक्षितं भवति; अचित्तम्रक्षितं पुनर्द्विविधं - गर्हितमितरच्च, भजना त्वत्र कार्या तां च वक्ष्यतीति गाथार्थः॥५६९॥ सचित्तपृथिवीकायादिम्रक्षितस्वरूपमाह
सुक्केण उ सरक्खेण मक्खियं उल्लेण पुढविकाएण।
सव्वं पि मक्खियं तं एत्तो आउम्मि वोच्छामि॥५७०॥ सुक्केण उ गाहा। व्याख्या- तत्र पृथिवीकायो द्विविधः शुष्कार्द्रभेदात्, तत्र शुष्केण तु सरजस्केन (टि०) १. पि व खं०॥ २. आवडि० जे१ । नवडिओ खं०॥ ३. पि य जे४ भां० विना॥