________________
१३५
॥ शङ्कितदोषनिरूपणम् ॥ आवण्णो पणुवीसं सुयणाणपमाणओ सुद्धो॥५६०॥ छउमत्थो गाहा। व्याख्या- छद्मस्थः श्रुतज्ञानी गवेषयति ऋजुः = निर्मायः प्रयत्नेन आपन्नः पञ्चविंशतिदोषाणामेकतरं तथाऽप्यसौ श्रुतज्ञानप्रमाणतः शुद्ध इति गाथार्थः॥५६०॥ अमुमेवार्थं स्पष्टयन्नाह
ओहो सुओवउत्तो सुयणाणी जदि वि गेण्हइ असुद्धं ।
तं केवली वि भुंजइ अपमाण सुयं भवे इहरा॥५६१॥ ओहो गाहा। व्याख्या- ओघतः सामान्येन श्रुतोपयुक्तः श्रुतज्ञानी यद्यपि गृह्णात्यशुद्धं आधाकादिदुष्टं तत् केवल्यपि भुङ्क्ते अप्रमाणं श्रुतं भवेद् इतरथा- यदि न भुङ्क्त इति गाथार्थः॥५६१॥ ततः को दोष ? इत्याह
सुत्तस्स अप्पमाणा चरणाभावो ततो य मोक्खस्स।
मोक्खस्स वि य अभावे दिक्खपेवित्ति निरत्था उ॥५६२॥ सुत्तस्स गाहा। व्याख्या- सूत्रस्य चाप्रामाण्ये, सप्तम्यर्थे प्रथमा, को दोषः ? इत्याहचरणाभावश्चरणाभावाच्च मोक्षाभावो मोक्षस्य चाभावाद् दीक्षाप्रवृत्तिनिरर्थिका स्यादिति गाथार्थः॥५६२॥ ग्रहणे शङ्कितो भोजने च शङ्कित इत्यस्य प्रथमभङ्गस्य सम्भवमाह
'किण्णु हु खद्धा भिक्खा दिजइ ण य तरति पुच्छिउँ हिरिमं।
इति संकाए घेत्तुं तं भुंजति संकितो चेव॥५६३॥ किण्णु गाहा। व्याख्या- किमिति प्रभूता भिक्षाद्य दीयते गृहस्थेन ?, न च तरति = शक्नोति प्रष्टुं लज्जावान् इति। अनन्तरोक्तया शङ्कया गृहीत्वा तद् भुङ्क्ते शङ्कित एवेति गाथार्थः॥५६३॥ ग्रहणे शङ्कितो न भोजने इत्यस्य द्वितीयभङ्गकस्य सम्भूतिमाह
हिदएण संकिएणं गहिया अण्णेण सोधिता सा य।
पगयं पहेणगं वा सोउं णिस्संकियं भुजे॥५६४॥ हियएण गाहा। व्याख्या- हृदयेन शङ्कितेन गृहीता, भिक्षेति गम्यते, अन्येन साधुना शोधिताऽसौ भिक्षा, कथम् ? इत्याह- प्रकृतं = तत्र भिक्षागृहे भोज्यं प्रहेणकं वेत्येतत् कथयता, तत इदं श्रुत्वा निःशङ्कितं भुङ्क्त इति गाथार्थः॥५६४॥ निःशङ्कितग्रहणं शङ्कितभोजनलक्षणं तृतीयभङ्गकमाह
जारिसिय च्चिय लद्धा खद्धा भिक्खा मए अमुगगेहे।
अण्णेहि वि तारिसिया विगडंत णिसामणे ततिओ॥५६५॥ (टि०) १. ०भावा खं०। भावो ॥२॥ २. ०पयत्ता जे१॥ ३. किण्ण हु जे४ भां० विना॥ ४. ०क्तायां शङ्कायां जि०॥ ५. किओ खं० जे२। किउं जे४ भां०॥ ६. व्यतां जि१॥ ७. वियडेंति जे२। विकरेंत जे१॥ ८. ०श्योपलब्धा जि. जि१॥ ९. ०श्यस्योपलब्धा जि१॥