________________
॥ निक्षिप्तदोषनिरूपणम् ॥
१३९ एक्वेक्को सट्ठाणे परट्ठाणे पंच पंचेव॥५८०॥ एमेव गाहा। व्याख्या- एवमेव यथा पृथिवीकायस्य तथा शेषाणामपि निक्षेपो भवति जीवकायानाम्। एकैको निक्षेपः स्वस्थाने, भवतीति शेषः, परस्थाने पञ्च पञ्च प्रकारो भवति एकैककायस्य, तद्यथा अप्काये अप्कायो निक्षिप्तः स्वस्थाननिक्षेपः स एव पृथिवी-तेजो-वायु-वनस्पति-त्रसेष्वेवं पञ्चधा परस्थाननिक्षेपो भवतीति गाथार्थः॥५८०॥ प्रथमचतुर्भङ्गिकाद्वितीय-तृतीय-चतुर्थभङ्गकान् गाथापादत्रयेण प्रदर्शयन्नाह
एमेव मीसएसु वि मीसाण सचेयणाण णिक्खेवो। ___ मीसाणं मीसेसु य दोण्हं पि य होइऽच्चित्तेसु॥५८१॥ एमेव गाहा। व्याख्या- 'एमेवे ति यथा सचित्ते सचित्तं प्रथमभङ्गे तथा द्वितीय-तृतीययोरपीति मिश्रकेषु अपिशब्दात् सचित्तेषु मिश्राणां सचेतनानां च निक्षेपः, किमुक्तं भवति– सचेतनेषु मिश्राणां निक्षेपो द्वितीयभङ्गकः, मिश्रेषु सचेतनानां निक्षेपस्तृतीयो, मिश्राणां मिश्रेषु निक्षेप इति चतुर्थः। ___अत्र चैकैकस्मिन् काये स्वस्थान-परस्थानतः षट्संयोगाश्चतुर्भङ्करूपकाः द्रष्टव्याः, सर्वे च षट्त्रिंशद् संयोगा इति। गता प्रथमचतुर्भङ्गिका। द्वितीय-तृतीयचतुर्भगिके गाथाचरमपादेनाह
___ 'दोण्हं पि य हो(इ) अचित्तेसु'त्ति द्वयोरपि सचित्त-मिश्रयोरचित्तविषयो निक्षेपः, स चैवं भवतिसचित्ते सचित्तं इति प्रथमः (१) सचित्ते अचित्तं इति द्वितीयः (२) अचित्ते सचित्तं इति तृतीयः (३) अचित्ते अचित्तं इति चतुर्थो भङ्गकः (४), इयं द्वितीयचतुर्भङ्गिका, अत्राऽपि षट्कायानङ्गीकृत्य स्वस्थान-परस्थानतः षट्संयोगाश्चतुर्भङ्गात्मका द्रष्टव्याः, मीलिताश्च षट्त्रिंशद् भवन्ति।
तृतीयचतुर्भङ्गिका पुनरियं- मिश्रे मिश्रं इति प्रथमो भङ्गकः (१) मिश्रे अचित्तमिति द्वितीयः (२) अचित्ते मिश्रं तृतीयः (३) अचित्तेऽचित्तं चतुर्थः (४), अत्राऽपि षट्कायानङ्गीकृत्य स्वस्थान-परस्थानतः षट्संयोगा द्रष्टव्याः, सर्वेऽपि षट्त्रिंशद्, एवं तिस्रः षट्त्रिंशिका मीलिताश्च अष्टोत्तरशतं संयोगानां भवन्तीति गाथार्थः॥५५१॥ प्रथमचतुर्भङ्गिकाग्रहणप्रतिषेधमाह
__ जत्थ उ सचित्तमीसे चउभंगो तत्थ चउसु वि अगेज्झं।
तं तु अणंतर इयरं परित्तऽणंतं च वणकाए॥५८२॥ जत्थ उ गाहा। व्याख्या- यत्र तु सचित्त-मिश्रपदाभ्यां चत्वारो भङ्गास्तत्र चतुर्ध्वपि अग्राह्यम्, तत्तु निक्षिप्तमनन्तरं परम्परं च भवति ‘परित्तऽणंतं च वणकाए'त्ति प्रत्येकवनस्पतिकाये अनन्तवनस्पतिकाये चानन्तर-परम्परनिक्षिप्तं भवतीति गाथार्थः॥५८२॥ प्रकारान्तरेण चतुर्भगिकामाह
(टि०) १. ०कारो निक्षेपो भवति जि० जि१॥ २. ०चेयणेसु खं० विना॥ ३. चित्तो खं०। चित्ते जे२।। ४. ०मीसो खं०॥ ५. ०मीसे खं। मीसा जे१॥ ६. य खं। ण जे२॥ ७. ०त्ते खं०॥ ८. एत्थं चउ० जे४ भां०॥ (वि०टि०) .. मलयगिरिसूरिमते मिश्रेषु सचित्तनिक्षेप इति द्वितीयभङ्गः, सचित्तेषु मिश्रनिक्षेप इति तृतीयभङ्गः।