________________
१४०
॥ सवृत्तिपिण्डनियुक्तिः ॥ अहव ण सचित्तमीसो उ एगओ एगओ य अचित्तो।
एत्थ उ चउक्कभंगो तत्थादिदुवे कहा णत्थि॥५८३॥ __ अहव ण गाहा। व्याख्या- अथवा णकारो वाक्यालङ्कारे सचित्त-मिश्रपदमेकत एकतश्चाचित्तपदम्, अत्र चत्वारो भगास्ते चामी- सचित्तमिश्रे सचित्तमिश्रं प्रथमः (१) अचित्ते सचित्त-मिश्रमिति द्वितीयः (२) सचित्तमिश्रेऽचित्तं तृतीयः (३) अचित्तेऽचित्तमिति चतुर्थः (४)। अत्राद्य-योर्द्वयोर्भङ्गयोः 'कह' त्ति ग्रहणकथा नास्ति, अत्यन्ताऽशुद्धत्वादिति गाथार्थः॥५८३॥ सचित्ते अचित्तनिक्षेप इत्यस्मिन् भङ्गके विशेषमाह
जं पुण अचित्तदव्वं णिक्खिप्पड़ चेतणेसु दव्वेसु।
तहिं मग्गणा उ इणमो अणंतर-परंपरा होइ॥५८४॥ जं पुण गाहा। व्याख्या- यत् पुरचित्तद्रव्यं निक्षिप्यते सचेतनेषु द्रव्येषु तस्मिन् मार्गणा त्वियं वक्ष्यमाणलक्षणा अनन्तर-परम्पररूपा भवतीति गाथार्थः॥५८४॥ तामेव दर्शयन्नाह
ओगाहिमादऽणंतरं परंपरं पिढरगादि पुढवीए। ___णवणीतादि अणंतरं परंपरं णावमादीसु॥५८५॥
ओगाहिमाइ गाहा। व्याख्या- उद्गाहिमकाधनन्तरं निक्षिप्तं पृथिव्याम्, परम्परं पिठरकादिनिक्षिप्तं भक्तादि प्रथिव्यामेव। नवनीतादि निक्षिप्तं अनन्तरमुदके, परम्परनिक्षिप्तं नावादिष्विति गाथार्थः॥५८५॥ तेजसि यो निक्षेपः तत्रानन्तर-परम्पररूपा द्विकाः सप्त भवन्ति, तानाह
विज्झाय मुम्मुरिंगालमेव अप्पत्त-पत्त-समजाले।
वोलीणे सत्त दुगा जंतोलित्ते य जयणाए॥५८६॥ विज्झाय० गाहा। व्याख्या- विध्यात-मुर्मुरा-ऽङ्गारास्तथा पिठराद्यप्राप्त-प्राप्त-समज्वाला व्युत्क्रान्तज्वालाश्चेत्येते सप्तानन्तर-परम्पररूपा द्विका भवन्ति; यन्त्रावलिप्ते च ग्रहणं यतनया वक्ष्यतीति गाथार्थः॥५८६॥ विध्यातादिस्वरूपमाह
(टि०) १. अचि० जि१॥ २. सचित्ते अचित्तमिश्रमिति जि०॥ ३. अचित्तमिश्रे सचित्तं जि०॥ ४. ०त्ते मिश्रे अचि० जि१॥ ५. काएसु खं०॥ ६. तक्रादि जि०॥ ७. तु ला०॥ ८. दुर्ग भां० जे४। दुवे ॥१॥ ९. ०गाले खं०॥ १०. ०ते अग्निरगिर्दृ० जि० जि१॥ (वि०टि०) .. मलयगिरिसूरिमुद्रितप्रते सच्चित्ते सचित्तमित्रं इति प्रथमभङ्गो उपदर्शितः॥ V. मलयगिरिसूरिमते तत्थाइतिए इति मूलपाठः स्यात्। तथा च तट्टीका- ... आदित्रिके आदिमे भङ्गत्रये कथा नास्ति इति मलय०॥ *. मलयगिरिसूरिमते 'दव्वेसु' इति पदस्य स्थाने 'मीसेसु' इति पाठः स्यात्॥