________________
१४१
॥ निक्षिप्तदोषनिरूपणम् ॥ विज्झाउ त्ति ण दीसइ अग्गी दीसइ य इंदणे छूढे।
आपिंगल अगणिकणा मुम्मुर णिजाल इंगाला॥५८७॥ विज्झाउ ति गाहा। व्याख्या- 'विज्झाउ त्ति' यो न दृश्यते अग्निर्दश्यते चेन्धने प्रक्षिप्ते स विध्यातः, ऊष्ममात्रक एवेति भावः, आपिङ्गला अग्निकणा भस्मोन्मिश्रा मुर्मुरो भवति, अङ्गारो ज्वालातीत इति गाथार्थः॥५८७॥
अप्पत्ता उ चउत्थे जाला पिढरं तु पंचमे पत्ता।
छठे पुण कण्णसमा जाला समतिच्छिया चरिमे॥५८८॥ अप्पत्त० गाहा। व्याख्या- 'अप्पत्ता उ चउत्थे जाला पिढर' त्ति या ज्वाला पिठरं न प्राप्नोति सा अप्राप्तेति उच्यते, तं तु पिठरं प्राप्ता पञ्चमे भेदे ज्वालाप्राप्तेत्यभिधीयते, षष्ठे पुनः पिठरकर्णसमा ज्वाला समज्वालेति भण्यते, पिठरं समतिक्रान्ता ज्वाला चरमे सप्तमे व्युत्क्रान्तेति। एतेषु सप्तस्वपि मण्डक-वृन्ताक-पूपिकादीनां अनन्तरनिक्षेपो भवति, परम्परनिक्षेपस्तु पिठरकादिष्वोदनादीनाम्, अग्निघट्टनादयस्तत्र दोषा इति गाथार्थः॥५८८॥ परम्परनिक्षेपे यन्त्र-चुल्ल्यादिषु भजनामाह
पासोलित्तकडाहे परिसाडी णत्थि तं पि य विसालं।
सो वि य अचिरच्छूढो उच्छुरसो नातिउसिणो य॥५८९॥ पासोलित्त० गाहा। व्याख्या- पार्श्वेष्ववलिप्तं पार्शवलिप्तं तस्मिन् = पार्थावलिप्ते कटाहे परिशाटी नास्ति तदपि च कटाहं विशालं = विशालमुखं सोऽपि च अचिरनिक्षिप्त इक्षुरसो नात्युष्णश्चैवम्भूतया यतनया गृह्यत इति गाथार्थः॥५८९॥
उसिणोदगं पि घेप्पइ गुलरसपरिणामियं तु णऽच्चुसिणं।
जंतु अघट्टियकण्णं घट्टियपडणम्मि मा अग्गी॥५९०॥ उसिणोदगं पि गाहा। व्याख्या- उष्णोदकमपि गृह्यते गुडरसपरिणामितं प्रासुकीकृतमित्यर्थः, नात्युष्णम्, य(त्) त्वघट्टितकण्ण अघट्टिता-अस्पृष्टाः कटाहकर्णा यस्मिन्नुदकदाने तद् = अघट्टितकर्णम्, अयं च षोडशभङ्गानामाद्यः शुद्धो भङ्गकः, अत्र च गृह्यते। घट्टितकणे तु कटाहे लेपादिपतनादग्निविराधना मा भूदिति न गृह्यत इति गाथार्थः॥५९०॥ द्वितीयभङ्गकप्रदर्शनायाह
पासोलित्तकडाहे णऽच्चुसिणे अपरिसाडि घट्टते ।
(टि०) १. च ॥१॥ २. ०क्षेप यन्त्र० जि० जि१॥ ३. सिणा ॥१॥ ४. ०णे जि१॥ ५. ०ण्ण जि१॥ ६. ०टुंतो जे१॥