________________
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
भवन्ती”ति लक्षणात् परम्परामरणेन अनुम्रियते सत्त्वजालं सहस्रं यावत्, सहस्रघातिविषसामर्थ्यत इति गाथार्थः॥२९८॥ दृष्टान्तमभिधाय दान्तिकयोजनामाह
७४
एवं मीसज्जायं चरणप्पं हणइ साहु सुविसुद्धं ।
तम्हा तं नो कप्पइ पुरिससहस्संतरगतं पि ॥ २९९ ॥
एवं गाहा । व्याख्या- एवं मिश्रजातं यद् अविशोधिकोट्यन्तर्गतं पाखण्डि-साधुमिश्रजातमिति भावः, चरणात्मानं हन्ति = घातयति सुविशुद्धमपि, सावद्यत्वात्। यस्मादेवं तस्मात् न कल्पते पुरुषसहस्रान्तरगतमपि, भगवद्वचनप्रामाण्यादिति गाथार्थः॥ २९९॥
अत्रैव भाजनविधिमभिधित्सुर्यदुक्तं "कप्पति कप्पे कते तिगुणे” तदाहणिच्छोडिए करीसेण वावि उव्वट्टिए ततो कप्पा ।
सुक्कावित्ता गेहइ अण्णे चउत्थे असुक्के वि ॥ ३०० ॥ दारं ॥
णिच्छोडिय गाहा । व्याख्या - निच्छोटिते = दृढं निर्लेपीकृते सति करीषेण वाऽपि उद्वर्त्तिते सति, भाजन इति गम्यते, तत्र त्रयः कल्पा दीयन्ते, न त्वविशेषेण तदनु शुष्कापयित्वा भाजनं गृह्णात्यशनादीति अयं विधिः ।
अन्ये त्वाचार्याः प्रतिपादयन्ति - चतुर्थे कल्पे दत्ते सति अशुष्केऽपि गृह्णातीति गाथार्थः॥ ३००॥ प्रतिपादितं मिश्रजातद्वारम् । साम्प्रतं स्थापनाद्वारमाह
सट्ठाण - परट्ठाणे दुविहं ठवियं तु होइ नायव्वं ।
खीराइ परंपरए हत्थगय घरंतरं जाव ॥३०१ ॥
सट्ठाण० गाहा। व्याख्या - इह साध्वर्थं यद् अशनादेः स्थापनमसौ स्थापनोच्यते। तत्र स्थापना स्थापितमित्यनर्थान्तरम्, अतो भेदत इदमेवाह- स्वस्थान - परस्थानयोर्द्विविधं स्थापितमिति । अत्र स्वस्थानं देयाऽपेक्षया चुल्ली वा अवचुल्ली वा, दधि-क्षीरगृहादि (वा) तत्र स्थापितं शाल्योदन - गुल-क्षीरादि स्वस्थानस्थापितम्; परस्थानं तु छब्बकादि, तत्र स्थापितं परस्थानस्थापितम् । इत्थमिदं द्विप्रकारं तुशब्दः परम्परा - ऽनन्तर-1 र- चिरेत्वरविशेषणार्थः, भवति ज्ञातव्यं, तीर्थकरवचनात् । दातुकामेन तत्र क्षीरादि परम्परस्थापितम्, आदिशब्दाद् इक्ष्वादिपरिग्रहः । 'हस्तगते गृहान्तरं यावत्' इति अधिकृतगृहाङ्गणभाँजामेव गृहान्तरविनिर्गताऽगारिहस्तस्थप्राभृतिकादि स्थापनेति गाथाक्षरार्थः ॥ ३०१॥
(टि०) १. सलहेसु कयकप्पे तिण्णिओ से सुक्खो दवंमि जे१ को० ॥ २. तदन्वपि शुष्कयित्वा जि० ॥ ३. तत् जि० ला० ॥ ४. चिरेतर जि१ ॥ ५. आदातु० जि० विना ।। ६. कृत्यगृ० जि० ॥ ७. भाजन एव जि० ॥
(वि०टि० ) पू. मलयगिरिसूरिमते तु न केवलं अविशोधिकोट्यन्तर्गतं पाखण्डि - साधुमिश्रजातं परम्परया पुरुषसहस्रान्तरगतमपि चरणात्मानं हन्ति अपि तु यावदर्थिकमिश्रजातमपि हन्ति । तथा च तट्टीका- “ एवं सहस्रवेधकविषमिव यावदर्थिकपाखण्डि - साधुविषयं मिश्रजातमप्येकेनान्यस्मै दत्तं तेनाऽप्यन्यस्मायित्येवं परम्परया पुरुषसहस्रान्तरगतमपि साधोः सुविशुद्धं चरणात्मानं हन्ति..." इति मलय० ॥