________________
॥ मिश्रजातदोषनिरूपणम् ॥
दुग्घासे तं समइच्छिया व अद्धाणसीसए जन्त्ता ।
सड्डी बहुभिक्खयरे मीसज्जायं करे कोई ।। २९५ ॥
दुग्घासे गाहा । व्याख्या- - दुःखेन ग्रासोऽस्मिन्निति दुर्ग्रासं = दुर्भिक्षं तस्मिन् दुःखितसत्त्वालम्बनेन, तद्दुर्ग्रासं समतिक्रान्तो वेति ततो व्यपेतो दुःखदर्शनेन, अध्वानशिरसि = कान्तारादिनिर्गमप्रवेशमार्गे खिन्नभिक्षाचराऽऽलम्बनेन, 'जत्त' त्ति प्राकृतशैल्या यात्रायां गिरिनगरादौ तीर्थबहुमानेन श्राद्धः कश्चित्सत्त्वः 'बहुभिक्षाचर' इति बहुषु भिक्षाचरेषु सत्सु मिश्रजातं उक्तशब्दार्थं करोतीति एवमस्य सम्भव इति गाथार्थः॥२९५॥ साम्प्रतमाद्यं मिश्रजातं तत्परिज्ञानोपायं चाभिधित्सुराह—
७३
जावंतट्ठासिद्धं ण एंति तं देह कामियं जइणं ।
२
बहुसु उ अपहुप्पंते भणाइ अण्णं पि रंधेहि ॥ २९६ ॥
जावंत० गाधा। व्याख्या- 'यावदर्थसिद्धमि'ति यावन्तः केचनागमिष्यन्ति तदर्थे सिद्धमिति यावदर्थमिश्रजातमिदमिति स्वरूपम् ।
परिज्ञानविधिस्तु अगारो भणति - " यावदर्थसिद्धम्, न चागच्छन्ति ते यावन्तः केचनः, तद् ददध्वं दानद्रव्यं कामिकं = इच्छया पर्याप्तं यतिभ्यः = साधुभ्यः” इति । तथा बहुषु वा भिक्षाचरेष्वप्रभवति सति सिद्धे भणत्यगारः- “ अन्यदपि राध्नुहि येन पर्याप्तं भवति" इति गाथार्थः ॥ २९६॥ द्वितीय-तृतीयभेदावाह—
अत्तट्ठा रंधंतो पासंडीणं पि बितियओ छुभइ । निग्गंथट्ठा तइओ अत्तट्ठा व साधेइ ॥ २९७॥
अत्तट्ठा गाहा। व्याख्या– आत्मार्थं राध्यन् किमप्योदनादि तदन्यभिक्षाचरव्युदासेन पाखण्डि - नामपि निमित्ते उक्तप्रथमाऽपेक्षया द्वितीयो मिश्रजातकर्ता क्षिपत्यादित एवाऽरभ्य उदक- तन्दुलादीन्; निर्ग्रन्थार्थं तृतीयः, पाखण्डिनामपि व्युदासेन आत्मार्थमपि साधयति निर्ग्रन्थार्थमपीति मिश्रजातम् । परिज्ञानोपायः पूर्ववदिति गाथार्थः ॥ २९७ ॥ एतच्च सहस्रान्तरगतमपि न कल्पते इति सदृष्टान्तमिदमाहविसघातियपिसियासी मरइ तमण्णो वि खाइउं मरइ ।
इय पारंपरमरणे अणुमरइ सहस्ससो जाव ॥ २९८ ॥
विसघादि० गाहा । व्याख्या- विषेण घातितो = विषघातितस्तस्य पिशितं = मांसं तदस्नातुं (? तदशितुं ) शीलमस्येति विषघातितपिशितासी(?शी), असौ म्रियते । तमन्योऽपि तथाविधः कश्चिद् भक्षितुमुपयुज्य म्रियते एव, तस्याऽपि विषदिग्धत्वात्। 'इय' एवं 'परम्परामरणे' “सुपां सुपो
=
(टि०) १. सड्डी को० विना ॥ २. य जे१ को० ॥ ३. चिरं बेंति जे१ को० । वि रंधतो जे४ भां० ॥ ४. ०मुभुज्य जि० जि१ ॥ (वि०टि० ) . यद्वा तद्दुर्भिक्षं समतिक्रान्तः = प्राप्तपर्यन्तः कश्चित् पुरुषः स्वयं बुभुक्षाकष्टानुभवनेन भिक्षाचरान् प्राप्य मिश्रजातं करोतीति आशयः ॥ * तम् = विषघातितपिशिताशिनमित्यर्थः ॥