SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ॥ सवृत्तिपिण्डनिर्युक्तिः ॥ भण्डकविधिमाह – कल्पते, स्वभण्डकं परभण्डकं चेति गम्यते, तृतीयो यदा कल्पः कृतो भवति । 'ननु एतदविशोधिकोटि कथमस्य कल्पत्रयाच्छुद्धिरिति ? उच्यते - निश्च्छोटनकरीषोद्वर्त्तनाद् ऊर्द्धमेतदिति । अन्ये त्वभिदधति प्रथमकल्पव्यतिरेकेण अन्ये त्रयो गृह्यन्त इति गाथार्थः ॥२९१॥ ७२ आधाकर्म्मण्युक्तेऽपि तदन्यविशेषप्रतिपादनाय तदभिधानपुरस्सरमुपसंहरन्नाह— समणकडाऽऽहाकम्मं समणाणं जं कडेण मीसं तु । आहार उवहि वसही सव्वं तं पूइयं होइ ॥ २९२ ॥ समण० गाहा। व्याख्या - श्रमणार्थं कृतमाधाकम्र्म्मोच्यते । इह च श्रमणा निर्ग्रन्था एव न शाक्यादयोऽपि । श्रमणार्थं यत् कृतं तेन मिश्रं तु सर्व्वं तत् पूति इति योगः । तत्पुनराहारः = अशनादिः, उपधिः = रजोहरणादिः, वसतिः प्रसिद्धा, सर्व्वमेतत्पूति भवति न आहार एवेति गाथार्थः॥२९२॥ एतत्परिज्ञानोपायमाह— सङ्घस्स थोवदिवसेसु संखडी आसि संघभत्तं वा । पुच्छित्तु निउणपुच्छं संलावाओ वऽगारीणं ॥ २९३ ॥ दारं ॥ सङ्गृस्स गाहा। व्याख्या– श्रावकस्य स्तोकदिवसेष्वतिक्रान्तेषु सङ्खडीरासीत् सङ्घभक्तं वा उपलक्षणत्वादन्यद् वा किञ्चित् ग्लानसम्पातादि । अथैवं व्यतिकरे सति प्रष्टुं निपुणप्रश्नेन विजानाति 'पूत्येतद्'ति संलापाद् वा अगारीणाम् । ता हि मुग्धतया भक्त्यतिशयख्यापनार्थं अपृष्टाऽपि कदाचित् कथयन्त्येवेति गाथार्थः॥२९३॥ व्याख्यातं पूतिद्वारम्। अधुना मिश्रजातद्वारं व्याचिख्यासुराह मीसज्जायं जावंतियं च पासंडसाहूमीसं च । सहसंतरं न कप्पड़ कप्पड़ कप्पे कए तिगुणे ॥ २९४ ॥ मीसजातं गाहा । व्याख्या- मिश्रं जातं = उत्पन्नम्, कृतमिति मिश्रजातम्, स्वगृहमानुषाणां भिक्षाचरादिभिः सह अशनादीति गम्यते । एतच्च त्रिविधमित्याह - यावदर्थं च पाखण्डि साधुमिश्रं च, मिश्रशब्दः प्रत्येकमभिसम्बध्यते, यावदर्थमिश्रम्, पाखण्डिमिश्रं साधुमिश्रं च । ओघोद्देशाच्च भिन्नमिदम्, तत्र ह्यात्मार्थमेवाऽऽरम्भे कृते तन्दुलादिप्रक्षेपः, इह त्वारम्भे एव मिश्र इति । इदं तु सहस्रान्तरगतमपि न कल्पते, वक्ष्यमाणविषोदाहरणादिति । भाजनविधिमाह – 'कल्पते कल्पे कृते त्रिगुणे' इति त्रिषु कल्पेषु कृतेषु कल्पते भाजनमिति गाथासमासार्थः॥२९४॥ अवयवार्थस्तु भाष्यादवसेयः । तत्राऽस्य सम्भवमेवाभिधित्सुराह (टि०) १. आह नन्वेत० जि० ॥ २. क्रियते ला० जि१ ॥ ३. ०हारमेवे० जि० ला० ॥ ४. ०खडेरा ० जि० ॥ ५. सम्भाषाद् जि० जि१ ॥ ६. मुखरतया जि० ।। ७. कल्पेषु कल्पते भा० ला० । कल्पेषु कृतेषु भा० जि० जि१ । अस्माभिः सन्दर्भानुसारेण सम्यक्पाठो योजितः ॥ (वि०टि०) प्रष्टुम् = प्रश्नयित्वा इत्यर्थः ।
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy