________________
॥ पूतिदोषनिरूपणम् ॥ इत्थमनन्तरोक्तं सूक्ष्मपूति उद्गमपूति न भवतीति अभिधाय शेषद्रव्यैरशनादिभिस्तद् यथा भवति तथाऽभिधित्सुराह
सेसेहि तु दव्वेहिं जावतियं फुसइ तत्तियं पूई।
लेवेहिं तिहिं पूर्ति कप्पइ कप्पे कए तिगुणे॥२८९॥ सेसेहि तु गाहा। व्याख्या- शेषैस्तु द्रव्यैः “डाए लोण" इत्याधुपलक्षितैरशनादिभिः करणभूतैर्यावत् स्पृशति, कश्चित् कर्तेति गम्यते, 'तत्तियं पूति' त्ति तावन्मानं सर्वं तद्भाजनस्थं पूति भवति। पाठान्तरं वा 'जावइयं पुट्ठमेत्तियं पूर्ति'।
तत्पुनर्लेपैस्त्रिभिः करणभूतैः पूत्येव, किमुक्तं भवति ? जम्मि आहाकम्मियं पिढरे रद्धं तम्मि अकतकप्पे अप्पणो रद्धं तं पूर्ति, पुणो पूर्ति, पुणो पूर्ति, ण परतो; अह पुण आहा(?आय)भावेण दव्वंतरपक्खिवणत्थं णिरवयवकप्पिते तो ण होज्जा वि। तथा 'कल्पते कल्पे कृते त्रिगुण' इति को भावार्थः ? जम्मि भायणे भत्तपाणपूतियं गहियं तत्थ अण्णं घेत्तुं कप्पति तीसु कप्पेसु कतेसु त्ति गाथार्थः ॥२८९॥ एतदेव व्याचष्टे
इंधणमादी मोत्तुं चउरो सेसाणि होति दव्वाणि।
तेसिं पुण परिमाणं तयप्पमाणादि आरब्भ ॥२९०॥ इंधणमादी गाहा। व्याख्या- इन्धनादीनि = इन्धन-धूम-गन्धादीनि मुक्त्वा = परित्यज्य चत्वारि शेषाणि भवन्ति द्रव्याणि 'डाए लोण' इत्याधुपुलक्षितान्यशनादीनि। तेषां पुनश्चतुण्णा द्रव्याणां परिमाणं शेषपूतिकर्तृत्वे इदं यदुत त्वक्प्रमाणादेराभ्य तयप्पमाणेणं सित्थप्पमाणेणमित्यादि एतावताऽपि स्पृष्टं तदन्यत् पूति भवतीति गाथार्थः॥२९०॥ आधाकर्मपाक एव ग्रहणविधिमाह
पढमदिवसम्मि कम्मं तिण्णि य दिवसाणि पूइयं होइ।
पूईसु तिसु ण कप्पइ कप्पति ततिओ जया कप्पो॥२९१॥ पढम० गाहा। व्याख्या- प्रथमदिवसे कर्म आधाकर्मपाके गृहमेव, त्रयश्च दिवसाः पूतिर्भवति। तदेव गृहं पूतिषु त्रिषु न कल्पते तत्र किञ्चित् ग्रहीतुम्। (टि०) १. हि उ पू० जे४ भां०॥ २. पिहडे जि० जि१॥ ३. अहभा० जि० जि१॥ ४. हि जि०॥ ५. भावार्थः जि१॥ (वि०टि०).. पू.मलयगिरिसूरिमते 'चत्वारि'शब्दः इन्धन-धूम-गन्ध-बाष्पपरः, पू.हरिभद्रसूरिमते तु चत्वारिशब्दो अशनपान-खादिम-स्वादिमपरोऽस्माकमाभाति। मलय०वृत्तौ त्वित्थं अभिहितम्- “इन्धनावयवादीनि चत्वारि पूर्वोक्तानि मुक्त्वा शेषाणि द्रव्याणि अशनादीनि पूतिकरणप्रवणानि ज्ञातव्यानि॥" *. शेषाणि डाए-लोण इत्याधुपलाक्षितानि चत्वारि अशनादीनि द्रव्याणि पूतिविषयाणि भवन्ति इति वाक्ययोजना कर्त्तव्या॥ V. प्रथमदिवसे आधाकर्मणः पाकः कृतः तस्मिन् दिवसे आधाकर्म व्यक्तम्। ततः त्रयो वासराः पूतिदोषवत् तत्पाकगृहं भवति। तदेव गृहम् = गृहगताऽशनादिकं त्रिषु पूतिषु = पूतिदोषवद्दिनेषु न कल्पते ग्रहीतुमित्याशयः॥