________________
७०
॥ सवृत्तिपिण्डनियुक्तिः ॥ सज्झमसज्झं कजं सज्झं साहिजए ण उ असझं।
जो तु असझं साहइ किलिस्सती ण तं च साहेइ॥२८५॥ सज्झम० गाहा। व्याख्या- इह साध्या साध्यं कार्यं सर्वमेव लौकिकं लोकोत्तरं च। व्यवहारतस्तत्र साध्यं साध्यते, विद्यमानोपायम्, न त्वसाध्यम्, तदन्यदिति। साधयंस्त्वसाध्यं क्लिश्यते नितराम्। न च तत्साधयति, अविद्यमानोपायत्वादिति गाथार्थः॥२८५॥ एवमुक्ते सत्यलीकनिर्बन्धतः पक्षान्तरमाश्रित्य सपरिहारं इष्टसूक्ष्मपूर्ति प्रतिपादयन्नाह
आहाकम्मियभायण पप्फोडण काउ अकयए कप्पे।
गहियं तु सुहमपूई धोवणमादीहिं परिहरणा॥२८६॥ आहाकम्मिय० गाहा। व्याख्या- आधाकर्मभाजने = यत्राधाकर्मगृहीतमित्यर्थः, 'प्रस्फोट' इति प्रस्फोटनं कृत्वा 'अकृते कल्पे' इति अदत्ते कल्पे गृहीतमेवान्यद् भवति पूति सूक्ष्मपूति, सूक्ष्माधाकावयवयोगतो न्याय्यत्वात्, अस्य चेत्थंभूतस्य पूतेर्धावनादिभिः परिहारः, धावनं हस्तपात्राणाम्, एवं च सति प्रज्ञापनापूतिपरिकल्पनाऽप्यप्रमाणिका परित्यक्ता भवतीति गाथार्थः॥२८६॥ इत्थं पराभिप्रायमाशङ्क्य अस्याऽपि अतिव्यापितामुपदर्शयन्नाह
धोतं पि णिरावयवं ण होइ आहच्च कम्मगहणंमि।
ण य अहव्वा तु गुणा भण्णति सुद्धी कओ एवं॥२८७॥ धोयं पि गाहा। व्याख्या- धौतमपि, भाजनमिति गम्यते, निरवयवं न भवति सूक्ष्मावयवापेक्षया, 'आहच्चेति कदाचिदाधाकर्मग्रहणे सति त्रेपितेऽपि तद्गन्धोपलब्धेः। न च अद्रव्या एव गुणा भवन्ति, ततश्च धौतभाजनगृहीतमपि सूक्ष्मपूत्येव, तल्लक्षणयोगादिति। भण्यते शुद्धिः कुतः एवम्, परिहरणाऽभावादिति गाथार्थः॥२८७॥
तस्मादलमनेनालीकनिर्बन्धेन। तदेव पूति स एव च तस्य भावार्थः, सूक्ष्मेन्धनाद्यवयवयोगेऽपि दोषाभावात्, तथालोकप्रसिद्धेः। आह च
लोए वि असुइगंधा विपरिणया दूरतो ण दूसंति।
ण य मारंति परिणता दूरगया ऊ विसावयवा॥२८८॥ लोगेऽवि गाहा। व्याख्या- लोकेऽपि अशुचिगन्धिनः, केचिदवयवा इति गम्यते, विपरिणताः पर्यायान्तरेण दूरतो = दूरादागता न दुष्यन्ति, तथोपलब्धेः। उपपत्तिमप्याह-न च मारयन्ति परिणताः सन्तः दूरगता एव विषावयवा इति गाथार्थः ॥२८८॥ (टि०) १. ज्झास० खं०॥ २. हु जे१ को० ॥ ३. ०ध्याऽसाध्यात् द्वयं कार्यं जि०। ०ध्याऽसाध्यकार्य्य जि१॥ ४. ति खं० विना॥ ५. भवतु ला० जि०॥ ६. सिद्धि जे१ को०॥ (वि०टि०) .. प्रस्फोटनं कृत्वा = आधाकावयवापसारणाय अमुल्यादिभिः प्रोच्छनं कृत्वा इत्यर्थः॥