________________
॥ पूतिदोषनिरूपणम् ॥
६९
'सुंदरमेतं पूति'त्ति सूक्ष्ममेतद् इत्थं परिहारेण नितरां संयमोपकारीति चोदकभणिते सति गुरुर्भणति = आचार्य्य आहेति गाथार्थः ॥ २८० ॥ किम् ? इत्याह
इंधण - धूमे - गंधे अवयवमाई न पूइयं होदि ।
जेसिं तु एस पूई सोही उ ण विज्जए तेसिं ॥ २८१ ॥
इंधण० गाहा । व्याख्या- इन्धनं उक्तलक्षणं धूमो गन्धावयवादि चोक्तस्वरूपं न पूतिर्भवति संयमोपघातीति भावः। येषां तु वादिनामेतत् पूति संयमोपघाति तेषाम्, किम् ? इत्याह- शुद्धिरेव, चारित्रस्येति गम्यते, न विद्यते तथावादिनामिति गाथार्थः ॥ २८९ ॥ एतदेव भावयति
इंधण अगणी अवयव धूमो बप्फो य अण्णगंधो य । तोयं भण्णइ सव्वं ततो पूतिं ॥ २८२ ॥
सव्वं
इंधण गाधा । व्याख्या - इन्धनग्रहणाद् अग्न्यवयवा गृह्यन्ते, धूमः तद्धूम एव तथाऽन्नगन्धो बाष्पश्चेति आधाकर्म्मण एव गृह्यते । एते हि सर्व्वं स्पृशन्ति लोकम् । ततः किम् ? इति चेदाशङ्क्याहभण्यते सर्वतः पूत्येवं च शुद्ध्यभाव इति गाथार्थः ॥ २८२ ॥
तस्मान्नैतत् पूतीत्यैदम्पर्यम् । इह च भूयः सम्यग्भावार्थं अनवबुध्यमानश्चोदक आहणणु सुहुमपूइयस्सा पुव्वुदिट्ठस्सऽसंभवो एवं । इंधण-धूमादिजुयं तम्हा पूतित्तिसिद्धमिदं ॥ २८३ ॥
४
णणु गाधा। व्याख्या– ननु सूक्ष्मपूतेः पूर्वोद्दिष्टस्य 'बादर सुहुमं भावे तु पूतियं' (गा० २७२) इत्यत्र तथेनादिना च व्याख्यातस्य ( अ ) सम्भव एवम् अन्यस्याप्रतिपादितत्वात् अभावाच्च । यतश्चैवं इन्धन-धूमादियुक्तं तस्मात् पूतीति सिद्धं इदं उक्तमेव इति गाथार्थः ॥ २८३॥
अत्र मुग्धचोदक इति विज्ञायोक्तमेव अतिस्पष्टमभिदधदुत्तरमाह
चोयग ! इंधणमादीहिं चउहिं वि सुहुमपूइयं होदि । पण्णवणामित्तमिदं परिहरणा णत्थि एयस्स ॥ २८४ ॥
चोयग गाहा । व्याख्या - चोदक ! इन्धनादिभिरनन्तरोपन्यस्तैः चतुर्भिरपि इन्धन - धूम - गन्धबाष्पैः सूक्ष्मपूतिर्भवति । ननु भवति किन्तु प्रज्ञापनापूति न तूद्गमदोषपूतीति । तथा चाह- प्रज्ञापनामात्रमिदं पूतीत्युक्तम्, परिहरणा नास्ति एतस्य । ततश्च यः खल्वस्योपन्यासः स प्रज्ञापनापूतिमाश्रित्य, यश्च प्रतिषेधः स उद्गमदोषपूतिमधिकृत्य, तत्परिहारस्य साध्यत्वादिति गाथार्थः॥२८४॥ किञ्च–
(टि०) १. एव जे१ जे२ को० ॥ २. ०ति तं लो० जे१ को० ॥ ३. तु जे१ को० खं० ॥ ४. पूतियं अन्यत्र तदिन्ध० ला० ॥ ५. ०मभिधित्सुराह जि० जि१ ॥ ६. न न भ० जि० जि१ ।। ७. नास्तीत्येतस्य ला० जि१ ॥ ८. ०स्याऽसाध्य० जि० विना ॥ (faofco) *. . 'सुहमपूइस्सा' इति सूक्ष्मपूतिकस्य पूर्वोक्तार्थस्य, पूर्वोद्दिष्टस्य = 'बायर सुहुममि' (गा० २७२) त्यादि गाथायां 'इंधणधूमेगंधे अवयवमाईहिं सुहुमपूई उ' इत्यादि गाथायां च भणितस्य, असम्भवः = अविद्यमानता, अन्यस्याप्रतिपादनात्... इति वीर० ।
.. एवं सति तर्हि पूर्वोद्दिष्टस्य 'भावंमि उ बायरं सुहुमं' इत्येवमुक्तस्य सूक्ष्मपूतेरसम्भवः प्राप्नोति... इति मलय० ॥