________________
॥ सवृत्तिपिण्डनियुक्तिः ॥ दव्वीछूढे त्ति जं वुत्तं कम्मदव्वीए जं दए। ___कम्मं घट्टिय सुद्धं तु घट्टएऽहारपूइयं ॥२७७॥ दव्वी० गाहा। व्याख्या- 'दीक्षेप' इति यदुक्तं द्वारगाथायां (गा० २७३) तस्य अयं भावार्थःकर्मदा यद् ददाति शुद्धौदनादि एतदप्युपकरणपूति, उपकरणेनोपहतत्वात्। अनेन शुद्धक्षेपादिपरिग्रहः, 'कर्मे ति आधाकर्म घट्टयित्वा निरवद्यात्मीयदा शुद्धं तु घट्टयत्यात्मीयमेव तदाहारपूति, आधाकाहारावयवसम्मिश्रुत्वादिति गाथार्थः॥२७७॥
अत्तट्ठियआयाणे डायं लोणं.व कम्म हिंगुं वा।
तं भत्तपाणपूई फोडण अण्णं व जं छुभइ॥२७८॥ अत्तट्ठिय० गाहा। व्याख्या- आत्मार्थीकृत आदाने तप्ततक्रादौ डायं = पत्रशाकं लवणं वा 'कर्मे ति आधाकर्मरूपं हिगु वा क्षिपतीति योगः, तदेतद् भक्तपानपूति। स्फोटनमन्यद् वा यत् क्षिपति तद् भक्तपानपूति। इह च स्फोटनं = धूवणं, अण्णं = जीरयकुत्थुभरादीति गाथार्थः॥२७८॥
संकामे कम्मं सिद्धं जं किंचि तत्थ छूढं वा।
अंगारधमि थाली वेसण हेट्ठामुही धूमो॥२७९॥ संकामेउं गाहा। व्याख्या- सङ्क्रम्य कर्म = आधाकर्म, 'सिद्धमिति तस्मिन्नकृतकल्पे आत्मार्थं सिद्धं यत् किञ्चित् मण्डकादि तत्र क्षिप्तं वाऽकृतकल्पे तदेतत्पूतीति प्रक्रमः। कम्मियवेसण त्ति आधाकर्मस्फोटनमिश्रं पूति, अंगारस्थाली अधोमुखी धूम इति धूमितं अंगारधूमेणं, अप्पणियं थालिं हेट्ठामुहियं काउं धूवेइ, एतदपि पूतीति गाथार्थः॥२७९॥ गतं बादरपूतिद्वारम्। अधुना सूक्ष्मपूतिप्रतिपादनायाह
इंधण-धूमे-गंधेअवयवमाईहिं सुहमपूइं तु।
सुंदरमेयं पूई चोयगभणिए गुरू भणइ॥२८०॥ इंधण० गाहा। व्याख्या- इन्धनग्रहणाद् अग्न्यवयवपरिग्रहः, धूमग्रहणात्तु तळूमस्य, गन्धग्रहणेन तु आधाकाऽनगन्धस्य, अवयवादिभिः सूक्ष्मपूर्ति, अत्र आदिशब्देन बाष्पपरिग्रहः व्यवहितश्चास्य सम्बन्धः, गन्धाद्यवयवादिभिः(?वयवैः) सह, किम्भूतम् ? सूक्ष्मपूति। अवयवाः सूक्ष्म-बादरभेदाः परिगृह्यन्ते, तुर्विशेषणार्थः, प्रज्ञापनापूति एतत्। अत्र सम्यग् भावार्थं अनवबुध्यमानश्चोदक आह(टि०) १. ०दृआहारपूईयं जे२॥ २. ०नेनाऽप्यशुद्ध० जि० जि१॥ ३. रभूमि था० भां० जे४ विना॥ ४. ०भिः अथ किं जि० जि१॥ (वि०टि०) . मलयगिरिसूरिमतेन एतद् आहारपूति तथा च तट्टिका- 'दव्वीछूढे' इति यत् प्रागुक्तं तस्याऽयमर्थः - 'कर्मदा' आधाकर्मिकदा यत् शुद्धमप्यशनादि घट्टयित्वा ददाति तद् ‘आहारपूतिः' भक्तपूतिः” इति मलय०॥ *. शुद्धं तु = गृहायकृतमेव अशनादिकम्॥ ४. यत् तप्ततक्रादौ इति अध्याहारः॥ D. कुत्थंभरादि = धान्यकादि इति ला० टि० (कोतमीर इति भाषायाम् ॥ V. अङ्गारस्थाली = अङ्गारधूमितस्थाली बोद्धव्यम्॥