Book Title: Pind Niryukti
Author(s): Jaysundarsuri
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 112
________________ ॥ मिश्रजातदोषनिरूपणम् ॥ दुग्घासे तं समइच्छिया व अद्धाणसीसए जन्त्ता । सड्डी बहुभिक्खयरे मीसज्जायं करे कोई ।। २९५ ॥ दुग्घासे गाहा । व्याख्या- - दुःखेन ग्रासोऽस्मिन्निति दुर्ग्रासं = दुर्भिक्षं तस्मिन् दुःखितसत्त्वालम्बनेन, तद्दुर्ग्रासं समतिक्रान्तो वेति ततो व्यपेतो दुःखदर्शनेन, अध्वानशिरसि = कान्तारादिनिर्गमप्रवेशमार्गे खिन्नभिक्षाचराऽऽलम्बनेन, 'जत्त' त्ति प्राकृतशैल्या यात्रायां गिरिनगरादौ तीर्थबहुमानेन श्राद्धः कश्चित्सत्त्वः 'बहुभिक्षाचर' इति बहुषु भिक्षाचरेषु सत्सु मिश्रजातं उक्तशब्दार्थं करोतीति एवमस्य सम्भव इति गाथार्थः॥२९५॥ साम्प्रतमाद्यं मिश्रजातं तत्परिज्ञानोपायं चाभिधित्सुराह— ७३ जावंतट्ठासिद्धं ण एंति तं देह कामियं जइणं । २ बहुसु उ अपहुप्पंते भणाइ अण्णं पि रंधेहि ॥ २९६ ॥ जावंत० गाधा। व्याख्या- 'यावदर्थसिद्धमि'ति यावन्तः केचनागमिष्यन्ति तदर्थे सिद्धमिति यावदर्थमिश्रजातमिदमिति स्वरूपम् । परिज्ञानविधिस्तु अगारो भणति - " यावदर्थसिद्धम्, न चागच्छन्ति ते यावन्तः केचनः, तद् ददध्वं दानद्रव्यं कामिकं = इच्छया पर्याप्तं यतिभ्यः = साधुभ्यः” इति । तथा बहुषु वा भिक्षाचरेष्वप्रभवति सति सिद्धे भणत्यगारः- “ अन्यदपि राध्नुहि येन पर्याप्तं भवति" इति गाथार्थः ॥ २९६॥ द्वितीय-तृतीयभेदावाह— अत्तट्ठा रंधंतो पासंडीणं पि बितियओ छुभइ । निग्गंथट्ठा तइओ अत्तट्ठा व साधेइ ॥ २९७॥ अत्तट्ठा गाहा। व्याख्या– आत्मार्थं राध्यन् किमप्योदनादि तदन्यभिक्षाचरव्युदासेन पाखण्डि - नामपि निमित्ते उक्तप्रथमाऽपेक्षया द्वितीयो मिश्रजातकर्ता क्षिपत्यादित एवाऽरभ्य उदक- तन्दुलादीन्; निर्ग्रन्थार्थं तृतीयः, पाखण्डिनामपि व्युदासेन आत्मार्थमपि साधयति निर्ग्रन्थार्थमपीति मिश्रजातम् । परिज्ञानोपायः पूर्ववदिति गाथार्थः ॥ २९७ ॥ एतच्च सहस्रान्तरगतमपि न कल्पते इति सदृष्टान्तमिदमाहविसघातियपिसियासी मरइ तमण्णो वि खाइउं मरइ । इय पारंपरमरणे अणुमरइ सहस्ससो जाव ॥ २९८ ॥ विसघादि० गाहा । व्याख्या- विषेण घातितो = विषघातितस्तस्य पिशितं = मांसं तदस्नातुं (? तदशितुं ) शीलमस्येति विषघातितपिशितासी(?शी), असौ म्रियते । तमन्योऽपि तथाविधः कश्चिद् भक्षितुमुपयुज्य म्रियते एव, तस्याऽपि विषदिग्धत्वात्। 'इय' एवं 'परम्परामरणे' “सुपां सुपो = (टि०) १. सड्डी को० विना ॥ २. य जे१ को० ॥ ३. चिरं बेंति जे१ को० । वि रंधतो जे४ भां० ॥ ४. ०मुभुज्य जि० जि१ ॥ (वि०टि० ) . यद्वा तद्दुर्भिक्षं समतिक्रान्तः = प्राप्तपर्यन्तः कश्चित् पुरुषः स्वयं बुभुक्षाकष्टानुभवनेन भिक्षाचरान् प्राप्य मिश्रजातं करोतीति आशयः ॥ * तम् = विषघातितपिशिताशिनमित्यर्थः ॥

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226