Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 240
________________ 184 The Sacred Books of the Jainas term ( Hetu ) for it is doubtful whether Buddha is not full of passions. (6) Kapila is not devoid of passions ( major term ) because he did not give his own flesh to the hungry ( middle term); whoever is devoid of passions gives his own flesh to the hungry as Buddha ( heterogeneous example ). Here the example involves doubt as to the validity of both the major and middle terms ( Sadhya and Sādhana ) for it is doubtful whether Buddha was devoid of passions and gave his own flesh to the hungry”.1 . 1. "तदनेन षड् दृष्टान्ताभासाः सूचिताः। तद् यथा साध्याव्यतिरेकी (१) साधनाव्यतिरेकी (२) साध्यसाधनाव्यतिरेकी (३) तथा संदिग्धसाध्याव्यतिरेकः (४) संदिग्धसाधनव्यतिरेकः (५) संदिग्धसाध्यसाधनव्यतिरेकश्च (६)। तत्र साध्याव्यतिरेकी यथा, भ्रान्तमनुमानं प्रमाणत्वात् , इत्यत्र वैधर्म्यदृष्टान्तो यत् पुनःभ्रान्तं न भवति न तत् प्रमाणं तद् यथा स्वप्नज्ञानमिति। स्वप्नज्ञानात् भ्रान्ततानिवृत्तेः साध्याव्यतिरेकित्वम् । साधनाव्यतिरेकी यथा, प्रत्यक्षं निर्विकल्पकं प्रमाणत्वात् । अत्र वैधर्म्यदृष्टान्तो, यत् पुनः सविकल्पकं न तत् प्रमाणं तद् यथानुमानमनुप्रमाणतानिवृत्तेः साधनाव्यतिरेकित्वम् । उभयाव्यतिरेकी यथा, नित्यानित्यः शब्दः सत्वात् इत्यत्र वैधर्म्यदृष्टान्तो यः पुनर्न नित्यानित्यः स न सन् तद् यथा घटः घटादुभयस्यापि अव्यावृत्तेरुभयाव्यतिरेकित्वम् । तथा संदिग्धसाध्यव्यतिरेकः, असर्वज्ञा अनाप्ता वा कपिलादयः आर्यसत्यचतुष्टयाप्रतिपादकत्वात् । अत्रं वैधादृष्टान्तः यः पुनः सर्वज्ञ आप्तो वा असौ आर्यसत्यचतुष्टयं प्रत्यपीपदत् तद् यथा शौद्धोदनिरिति । अयं च साध्यव्यतिरेकी वा आर्यसत्यचतुष्टयस्य दुःखसमुदयमार्गनिरोधलक्षणस्य प्रमाणवाधितत्वेन तदुभाषकस्य असर्वज्ञतानाप्ततोपपत्तः ।...तस्मात् शौद्धोदनेः सकाशात् असर्वज्ञतानाप्ततालक्षणस्य साध्यस्य व्यावृत्तिः सन्दिग्धेति सन्दिग्धसाध्यव्यतिरेकित्वम् । सन्दिग्धसाधनव्यतिरेको यथा, अनादेयवाक्यः कश्चिदू विवक्षितः पुरुषो रागादिमत्वादित्यत्र वैधर्म्यदृष्टान्तो यः पुनः आदेयवाक्यो न स रागादिमान तयथा सुगत इति ।.... सुगतात् रागादिमत्वव्यावृत्तिसंशयात् संदिग्धसाधनव्यतिरेकित्वम् । संदिग्धसाध्यसाधनव्यतिरेको यथा, वीतरागाः कपिलादयः करुणास्पदेषु अपि अकरुणापरीतचित्ततया दत्तनिजमांसशकलत्वात् । अत्र वैधर्म्यदृष्टान्तो ये पुनर्वीतरागास्ते करुणापरीतचित्ततया दत्तनिजमांसशकलाः तद् यथा बोधिसत्वा इत्यत्र साधनसाध्यधर्मयोर्बोधिसत्वेभ्यो Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362