Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 329
________________ मेयरत्नमाला कालयोस्तदनुमापकस्य लिङ्गस्याभावात्तदभावोऽपि सर्वदाप्यतीन्द्रियसाध्यसाधन सम्बन्धस्येन्द्रियग्राह्यत्वायोगात् ॥ प्रत्यक्षप्रतिपन्नमेव हि लिङ्गम् । अनुमानं हि गृहीतसम्बन्धस्यैकदेशसन्दर्शनाद सन्निकृष्टेऽर्थे बुद्धिरित्यभिधानात् || नाप्यर्थापत्तस्तत्सिद्धिः । अन्यथाभूतस्यार्थस्याभावादुपमानोपमेययोरप्रत्यक्षत्वाच्च नाप्युपमानं साधकम् || केवलमभावप्रमाणमेवावशिष्यते तच्च तदभावसाधकमिति । न च पुरुषसद्भाववदस्यापि दुःसाध्यत्वात्संशयापत्तिस्तदभावसाधकप्रमाणानां सुलभत्वात् || अधुना हि तदभावप्रत्यक्षमेवातीतानागतयोः कालयोरनुमानं तदभावसाधकमिति । तथा च - श्रतीतानागतौ कालौ वेदकारविवर्जितौ । कालशब्दाभिधेयत्वादिदानीन्तन कालवत् ।। १ ।। वेदस्याध्ययनं सर्वं तदध्ययनपूर्वकम् | वेदाध्ययनवाच्यत्वादधुनाध्ययनं तथेति ॥ २ ॥ तथा अपौरुषेयो वेदः अनवच्छिन्नसम्प्रदायत्वे सत्यस्मर्यमारणकर्तृकत्वादाकाशवत् ॥ अर्थापत्तिरपि प्रामाण्यलक्षणस्यार्थस्यानन्यथाभूतस्य दर्शनात्तदभावे निश्चीयते || धर्माद्यतीन्द्रियार्थविषयस्य वेदस्यावग्दर्शिभिः कर्तुमशक्यत्वात् । प्रतीन्द्रियार्थदर्शिनश्चाभावात्मामाण्यमपौरुषेयतामेव कल्पयतीति ।। अत्र प्रतिविधीयते — यत्तावदुक्तं वर्णानां व्यापित्वे नित्यत्वे च प्रत्यभिज्ञाप्रमाणमिति, तदसत् । प्रत्यभिज्ञायास्तत्र प्रमाणत्वायोगात् || देशान्तरेऽपि तस्यैव वर्णस्य सत्त्वे खण्डशः प्रतिपत्तिः स्यात् । नहि सर्वत्र व्याप्त्या वर्तमानस्यैकस्मिन्प्रदेशे सामस्त्येन ग्रहणमुपपत्तियुक्तम् । अव्यापकत्वप्रसङ्गात् ।। घटादेरपि व्यापकत्वप्रसङ्गः । शक्यं हि वक्तुमेवं घटः सर्वगतश्चचुरादिसन्निधानादनेकत्र देशे प्रतीयत इति ॥ ननु घटोत्पादकस्य मृत्पि एडादेरनेकस्योपलम्भादनेकत्वमेव । तथा महदणुपरिमाणसम्भवाच्चेति || तच्च वर्णेष्वपि समानम् । तत्रापि प्रतिनियतताल्वादिकारणकलापस्य तीव्रादिधर्मभेदस्य च सम्भवाविरोधात् । तात्वादीनां व्यञ्जकत्वमत्रैव निषेत्स्यत इत्यास्तां तावदेतत् ।। अथ व्याप्तित्वेऽपि सर्वत्र सर्वात्मना वृत्तिमत्वान दोषोऽयमिति चेन्न । तथा सति सर्वथैकत्वविरोधात् । नहि देशभेदेन युगपत्सर्वात्मना प्रतीयमानस्यैकत्वमुपपन्नं प्रमाणविरोधात् । तथा च प्रयोगःप्रत्येकं गकारादिवर्णोऽनेक एव युगपद्भिन्नदेशतया तथैव सर्वात्मनोपलभ्यमानत्वात् घटादिवत् ॥ न सामान्येन व्यभिचारः । तस्यापि सदृशपरिणा Jain Education International For Personal & Private Use Only ४५ - www.jainelibrary.org

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362