Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 333
________________ प्रमेयरत्नमाला तस्मादपौरुषयत्वस्य वेदे व्यवस्थापयितुमशक्यत्वान्न तल्लक्षणस्याव्यापकत्वमसम्भवितत्वं वा सम्भवति ॥ पौरुषेयत्वे पुनः प्रमाणानि बहूनि सन्त्येव सजन्ममरणर्षिगोत्रचरणादिनामश्रुतेरनेकपदसंहतिप्रतिनियमसंदर्शनात्फलार्थिपुरुषप्रवृत्तिनिवृत्तिहेत्वात्मनां श्रुतेश्च मनुसूत्रवत् पुरुषककैव श्रुतिरिति वचनात् ॥ अपौरुषेयत्वेऽपि वा न प्रामाण्यं वेदस्योपपद्यते तद्धेतूनां गुणानामभावात् ।। ननु न गुणकृतमेव प्रामाण्यं किन्तु दोषाभावप्रकारेणापि, स च दोषाश्रयपुरुषाभावेऽपि निश्चीयते न गुणसद्भाव एवेति । तथाचोक्तम्-शब्दे दोषोद्भवस्तावद्वक्त्रधीन इति स्थितम् । तदभावः कचित्तावद्गुणवद्वक्तृकत्वतः॥१॥ तद्गुणैरपकृष्टानां शब्दे संक्रान्त्यसम्भवात् । यद्वा वक्तुरभावेन न स्युर्दोषा निराश्रयाः॥२॥ इति ॥ तदप्ययुक्तम् । पराभिप्रायापरिज्ञानात् ॥ नास्माभिवक्तुरभावे वेदस्य प्रामाण्याभावः समुद्भाव्यते । किं तु तव्याख्यातॄणामतीन्द्रियार्थदर्शनादिगुणाभावे । ततो दोषाणामनपोदितत्वान्न प्रामाण्यानेश्चय इति । ततोऽपौरुषेयत्वेऽपि वेदस्य प्रामाण्यनिश्चयायोगान्नानेन लक्षणस्याव्यापित्वमसम्भावित्वं वेत्यलमतिजल्पितेन ॥ ननु शब्दार्थयोः सम्बन्धाभावादन्यापोहमात्राभिधायित्वादाप्तप्रणीतादपि शब्दात् कथं वस्तुभूतार्थावगम इत्यत्राहसहजयोग्यतासङ्कतवशाद्धि' शब्दादयो वस्तुप्रतिपत्तिहेतवः ॥१०॥ सहजा स्वभावभूता योग्यता शब्दार्थयोर्वाच्यवाचकशक्तिः तस्यां सङ्केतस्तद्वशाद्धि स्फुटं शब्दादयः मागुक्ता वस्तुप्रतिपत्तिहेतव इति ।। उदाहरणमाह यथा मेर्वादयः सन्ति ॥१०१॥ ननु य एव शब्दाः सत्यर्थे दृष्टास्त एवार्थाभावेऽपि दृश्यन्ते तत्कथमर्थाभिधायकत्वमिति । तदप्ययुक्तम्-अनर्थकेभ्यः शब्देभ्योऽर्थवतामन्यत्वात् ।। न चान्यस्य व्यभिचारेऽन्यस्यासौ युक्तोऽतिप्रसङ्गात् ॥ अन्यथा गोपालघटिकान्तर्गतस्य धूमस्य पावकस्य व्यभिचारे पर्वतादिधूमस्यापि तत्प्रसङ्गात् ।। "यत्नतः परीक्षितं कार्य कारणं नातिवर्तते" इत्यन्यत्रापि समानम् । सुपतितो हि शब्दोऽर्थे न व्यभिचरतीति ॥ तथा चान्यापोहस्य शब्दार्थत्वकल्पनं प्रयासमात्रमेव ॥ न चान्यापोहः शब्दार्थो व्यवतिष्ठते प्रतीतिविरो Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362