Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 347
________________ प्रमेयरत्नमाला परिणाम इत्येकप्रमात्रपेक्षया प्रमाणफलयोरभेदः। करणक्रियापरिणामभेदाढ़ेद इत्यस्य सामर्थ्यसिद्धत्वानोक्तम् ॥ पारम्पर्येण साक्षाच्च फलं द्वेधाऽभिधायि यत् । देवभिन्नमभिन्नं च प्रमाणात्तदिहोदितम् ॥ १ ॥ इति परीक्षामुसलघुवृत्तौ फलसमुद्देशः पञ्चमः ॥ ५ ॥ अथेदानीमुक्तप्रमाणस्वरूपादिचतुष्टयाभासमाह ___ ततोऽन्यत्तदाभासमिति ॥ १॥ तत उक्तात प्रमाणस्वरूपसंख्याविषयफलभेदादन्यद्विपरीतं तदाभासमिति ॥ तत्र क्रमप्राप्तं स्वरूपाभासं दर्शयतिअस्वसंविदितगृहीतार्थदर्शनसंशयादयः प्रमाणाभासाः ॥ २ ॥ अस्वसंविदितश्च गृहीतार्थश्च दर्शनश्च संशय आदिर्येषां ते संशयादयश्चेति सर्वेषां द्वंद्वः॥ आदिशब्देन विपर्यानध्यवसाययोरपि ग्रहणम् ।। तत्रास्वसंविदितं ज्ञानं ज्ञानान्तरमत्यत्तत्वादिति नैयायिकाः । तथाहि ज्ञानं स्वव्यतिरिक्तवेदनवेद्यं वेद्यत्वात् घटवदिति । तदसङ्गतम्- धर्मिज्ञानस्य ज्ञानान्तरवेद्यत्वे साध्यान्तःपातित्वेन धर्मित्वायोगात् ॥ स्वसंविदितत्वे तेनैव हेतोरनेकान्तात् ॥ महेश्वरज्ञानेन च व्यभिचाराद्व्याप्तिज्ञानेनाप्यनेकान्तादर्थप्रतिपत्ययागाच ॥ नहि ज्ञापकमप्रत्यक्ष ज्ञाप्यं गमयति शब्दलिङ्गादीनामपि तथैव गमकत्वप्रसङ्गात् ॥ अनन्तरभाविज्ञानग्रयात्वे तस्याप्यगृहीतस्य पराज्ञापकत्वात्तदनन्तरं कल्पनीयम् । तत्रापि तदनन्तरमित्यनवस्था ।। तस्मान्नायं पक्षः श्रेयान् ॥ एतेन करणज्ञानस्य परोक्षत्वेनास्वसंविदितत्वं ब्रुवन्नपि मीमांसकः प्रत्युक्तः । तस्यापि ततोऽर्थप्रत्यक्षत्वायोगात ॥ अथ कमेत्वेनाप्रतीयमानलादप्रत्यक्षत्वे तर्हि फलज्ञानस्याप्रत्यक्षता तत एव स्यात् ॥ अथ फलत्वेन प्रतिभासनं नो चेत् करणज्ञानस्यापि करणत्वेनावभासनात् प्रत्यक्षत्वमस्तु । तस्मादर्थपतिपत्त्यन्यथाऽनुपपत्तेः करणज्ञानकल्पनावदर्थप्रत्यक्षत्वान्यथाऽनुपपत्ते नस्यापि प्रत्यक्षत्वमस्तु ॥ अथ करणस्य चक्षुरादेरमत्यतत्वेऽपि रूपमाकटयावयभिचार इति चेन्न, भिन्नकर्तृककरणस्यैव तद्वयभिचारात् ॥ अभिनकर्टके करणे Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362