Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 351
________________ अमेयरनमाला - हेत्वाभासा प्रसिद्धविरुद्धानकान्तिकाकिश्चित्कराः ॥२१॥ एषां यथाक्रमं लक्षणं सोदाहरणमाह. असत्सत्तानिश्चयोऽसिद्धः ॥२२॥ सत्ता च निश्चयश्च सत्तानिश्चयो, असन्तौ सत्तानिश्चयो यस्य स भवत्यसत्सत्तानिश्चयः । तत्र प्रथमभेदमाह अविद्यमानसत्ताकः परिणामी शब्दश्चानुषत्वात् ॥ २३ ॥ कथमस्यासिद्धत्वमित्याह __स्वरूपेणासत्त्वात् ॥ २४॥ द्वितीयासिद्धभेदमुपदर्शयतिअविद्यमाननिश्चयो मुग्धबुद्धिं प्रत्यग्निरत्र धूमादिति ॥ २५॥ अस्याप्यसिद्धता कथमित्यारेकायामाह तस्य वाष्पादिभावेन भूतसंघाते संदेहात् ॥ २६ ॥ वस्येति मुग्धबुद्धिं प्रतीत्यर्थः । अपरमपि भेदमाह सांख्यम्प्रति परिणामी शब्दः कृतकत्वादिति ॥ २७ ॥ अस्यासिद्धतायां कारणमाह तेनाज्ञातत्वादिति ॥ २८॥ तेन सांख्येनासातत्वात्तन्मते याविर्भावतिरोभावावेव प्रसिद्धौ नोत्पत्यादिरिति ॥ अस्याप्यनिश्चयादसिद्धत्वमित्यर्थः ॥ विरुद्धं हेत्वाभासमुपदर्शयबाह विपरीतनिश्चिताविनाभावो विरुद्धोऽपरिणामी शब्दः कृतकत्वात् ॥ २६॥ कृतकत्वं सपरिणामविरोधिना परिणामेन व्यासमिति ॥ भनेकान्तिकं हेत्वाभासमाह विपनेऽप्यविरुद्धवृत्तिरनैकान्तिकः॥३०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362