________________
अमेयरनमाला - हेत्वाभासा प्रसिद्धविरुद्धानकान्तिकाकिश्चित्कराः ॥२१॥ एषां यथाक्रमं लक्षणं सोदाहरणमाह. असत्सत्तानिश्चयोऽसिद्धः ॥२२॥ सत्ता च निश्चयश्च सत्तानिश्चयो, असन्तौ सत्तानिश्चयो यस्य स भवत्यसत्सत्तानिश्चयः । तत्र प्रथमभेदमाह
अविद्यमानसत्ताकः परिणामी शब्दश्चानुषत्वात् ॥ २३ ॥ कथमस्यासिद्धत्वमित्याह
__स्वरूपेणासत्त्वात् ॥ २४॥ द्वितीयासिद्धभेदमुपदर्शयतिअविद्यमाननिश्चयो मुग्धबुद्धिं प्रत्यग्निरत्र धूमादिति ॥ २५॥ अस्याप्यसिद्धता कथमित्यारेकायामाह
तस्य वाष्पादिभावेन भूतसंघाते संदेहात् ॥ २६ ॥ वस्येति मुग्धबुद्धिं प्रतीत्यर्थः । अपरमपि भेदमाह
सांख्यम्प्रति परिणामी शब्दः कृतकत्वादिति ॥ २७ ॥ अस्यासिद्धतायां कारणमाह
तेनाज्ञातत्वादिति ॥ २८॥ तेन सांख्येनासातत्वात्तन्मते याविर्भावतिरोभावावेव प्रसिद्धौ नोत्पत्यादिरिति ॥ अस्याप्यनिश्चयादसिद्धत्वमित्यर्थः ॥ विरुद्धं हेत्वाभासमुपदर्शयबाह
विपरीतनिश्चिताविनाभावो विरुद्धोऽपरिणामी शब्दः
कृतकत्वात् ॥ २६॥ कृतकत्वं सपरिणामविरोधिना परिणामेन व्यासमिति ॥ भनेकान्तिकं हेत्वाभासमाह
विपनेऽप्यविरुद्धवृत्तिरनैकान्तिकः॥३०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org