________________
प्रमेयरनमाला अपिशब्दानं केवलं पक्षसपतयोरिति द्रष्टव्यम् । स च द्विविधा विपक्षे निश्चितवृत्तिः शङ्कितवृत्तिश्चेति ॥ तत्राचं दर्शयन्नाह- र
निश्चितवृत्तिरनित्यः शब्दः प्रमेयत्वात् घटवदिति ॥ ३१ ॥ कथमस्य विपक्षे निश्चिता वृत्तिरित्याशङ्कयाह
आकाशे नित्येऽप्यस्य निश्चयात् ॥ ३२ ॥ .. शङ्कितवृत्तिमुदाहरति• शङ्कितवृत्तिस्तु नास्ति सर्वज्ञो वक्तृत्वादिति ।। ३३ ॥ ... अस्यापि कथं विपक्षे वृत्तिराशंक्यत इत्यत्राह
__ सर्वज्ञत्वेन वक्तृत्वाविरोधादिति ॥ ३४ ॥ . भविरोधश्च ज्ञानोत्कर्षे वचनानामपकर्षादर्शनादिति निरूपितमायम् ॥ अकिश्चित्करस्वरूपं निरूपयति
सिद्धे प्रत्यक्षादिबाधिते च साध्ये हेतुरकिञ्चित्करः ॥ ३५॥ तत्र सिद्धे साध्ये हेतुरकिश्चित्कर इत्युदाहरति
सिद्धः श्रावणः शब्दः शब्दत्वात् ॥ ३६॥ कथमस्याकिश्चित्करत्वमित्याह- .
किञ्चिदकरणात् ॥ ३७॥ अपरं च भेदं प्रथमस्य दृष्टान्तीकरणद्वारेणोदाहरतियथाऽनुष्णोऽग्निद्रव्यत्वादित्यादैर्किश्चित्कर्तु मशक्यत्वात् ॥ ३८ ॥
अकिश्चित्करत्वमिति शेषः ॥ अयं च दोषो हेतुलक्षणविचारावसर एव, न वादकाल इति व्यक्तीकुर्वन्नाहलक्षण एवासौ दोषो व्युत्पन्नप्रयोगस्य पक्षदोषेण व दुष्टत्वात् ३६ ॥ दृष्टान्तोऽन्वयव्यतिरेकभेदाद्विविध इत्युक्तं तत्रान्वयदृष्टान्ताभासमाह
दृष्टान्ताभासा अन्वयेऽसिद्धसाध्यसाधनोभयाः ॥ ४॥ साध्यं च साधनं च उभयं च साध्यसाधनोभयानि असिद्धानि तानि येष्विति विग्रहः॥ एतानेकत्रैवानुमाने दर्शयति- .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org